________________
२०४ केशवकृतः कल्पद्रुकोशः नाडिंधमः कलादः स्या'च्छौल्विकस्ताम्रकुट्टकः । कायस्थः कूटकृत्पञ्जीकरः करण इत्यपि ॥१७॥ स्याच्छांखिकः काम्बविक'स्तेली धूसरचाक्रिकौ । तिलादिपर्यायतुदः स्नेहकारक इत्यपि ॥१८॥ मणिकारो नैकटिको रथकारस्तु वर्द्धकिः । काष्ठतट स्थपतिस्त्वष्टा तक्षाथ ग्रामगृह्यके ॥१६॥ ग्रामतक्षोऽथ स्वच्छन्द कौटतक्षोऽथ नापितः। वात्सीपुत्रो दिवाकीर्तिर्मुण्डकोन्तायसाय्यपि ॥२०॥ तण्डिवाहो ग्रामणीर्वाश्चौरिको भाण्डिकः पुनः । नखकुट्टः तुरी मुण्डी चण्डिलः तुरमद्यथ ॥२१॥ निर्णेजकः कर्मकीलो रजकः पवनिश्च सः । पवनो वस्त्रपावोऽथ शुण्डारः शुण्डिशौण्डिकौ ॥२२॥. मण्डहारः कल्प पालो मानपर्यायतो वणिक् । अजाजीवस्तु जाबालो देवाजीवस्तु देवलः ॥२३॥ अधमद्विजपर्यायो मायिकः प्रतिहारकः । प्रतीहारः कामलोऽपि कार प्रतिहारकः ॥२४॥ कारावी जङ्गमकुटी सा स्याद्भमकुटीत्यपि । वारित्रा खपरी मूर्द्धखोलं पत्रपिशाचिका ॥२५॥
१ च्छौम्लिका २ स्तैली ३ तुण्डि ४ नाश्वौ ५ भादि ६ ययनीम्पयनी ७ पालः पानB कारःB