________________
१२२ केशवकृतः कल्पद्रुकोशः कौक्षयकः स 'भीताक्षः पुरुषाकारयोगरः । एरण्डबीजसंकाशयोगर स्तार पटकः ॥२८॥ रामारोमावलीश्यामो न नमेन्नामितोप्यसिः । नववारिधरश्यामः पिङ्गाकुञ्चितयोगरः ॥२६॥ खड्गः षडालको नाम विषवज्रभयापहः । स्वर्णचूर्णनिभैः सूक्ष्मयोंगरैः "स्वर्णपञ्जरः ॥३०॥ मुक्ताचूर्णसमाकारैः ख्यातस्तित्तिरवल्लरः। योगरैः कजलप्रख्यैः खड्गः स्यात् कालवल्लरः ॥३०१॥ वियच्छयामवपुः सारः स्वल्पपाण्डरयोगरः । सरोजिनीदलच्छायः कोङ्गिः खङ्गोऽभिधीयते ॥३०२॥ कदली शृङ्खली चापि यस्मिन्दृश्येत चान्तरा। वर्णयोगरभेदेन नामान्येषां भवन्ति हि ॥३०॥ कटीतलो न्युजखग एकधार इली स्त्रियाम् । इलालिः करपालिः स्यादिलीलिरपि वा पुनः ॥३०४॥ करवाल्यथ मुष्टी स्त्री द्वयोर्मुष्टि ग्रहस्थले। सरुश्च पुंसि ग्राहोपि प्रत्याकारस्तु पुंसि च ॥३०॥ दन्तेन निर्मितस्तत्र दन्तपालिरसेस्तु यत् । तिर्यग्भागद्वयं मुष्टावधोग्रान्तं नपुंसकम् ॥३०६॥
१ भीताख्यः २ स्तोरक: ३ पट्टिक:B ४ स्वर्णपञ्जरैः B स्वर्णपिजरैरिति पाठो भवेत् ५ अत्र पद्भ्यां पदोर्यद्धरणं पादबन्धः स उच्यते इत्यधिक B पुस्तके दृश्यते तच्चोपरिष्टाशियुद्धभेदप्रकरणे ' पुस्तके समुपलभ्यते तत्रैव चैतत्पाठः समुचितः । पुस्तकत्वेतच्छ्लोकाई न काप्युपलभ्यते ६ कल्पल B ७ कोगिः B तरान्तरा KO & गुंह KC