________________
अहम् ॥ ॐ ह्रीँ अर्ह श्रीशङ्केश्वरश्रीस्तम्भनपार्श्वजिनेश्वरेभ्यो नमः। शासनसम्राट्-श्रीविजयनेमिसूरीश्वरपरमगुरुभ्यो नमः । स्वपरसिद्धान्तपारावारपारीण-शब्दावतार-परमार्हतकुमारपालभूपालप्रतिबोधक-कलिकालसर्वज्ञ
श्रीमद्-हेमचन्द्रसूरीश्वरविरचितः अभिधानचिन्तामणिकोशः । आचार्यश्रीविजयकस्तूरसूरिकृत-चन्द्रोदयाभिध
गूर्जरभाषाटीकासमलङ्कृतः । देवाधिदेवकाण्डः प्रथमः १।
. मङ्गलाचरणम् । ध्यात्वा श्रीमन्महावीरं, सर्वभावप्रकाशकम् । विराजत्तीर्थतीर्थेशं, तारकं भविनां भवात् ॥ १॥ गौतमादिगणीन्द्रांश्च, · श्रुताब्धिपारगाँस्तथा ।। श्रीहेमचन्द्रसूरीशं, कलिकालाखिलकम् ॥२॥ प्रगुरुं नेमिसूरीशं, सूरिसम्राट्पदाञ्चितम् । विज्ञानसूरिपं नत्वा, समयशं गुरुं स्वकम् ॥३॥ आचार्यहेमचन्द्रेशा-भिधानाऽऽलम्बिनीमहम् । गौर्जर्या भाषया कुर्वे, टीका चन्द्रोदयाभिधाम् ॥ ४ ॥ अत्राऽभिधानटीकायां, शेषे शिलोञ्छके च ये।। गृहीताः शब्दसङ्घास्ते, सार्थाः कस्तूरसूरिणा ॥५॥