________________
॥ अथ षष्ठः काण्डः ॥ .. जीवोऽपि चेतने जन्ती, प्राणी जन्मोऽपि जन्मनि ॥१२३॥ जीवातुर्जीविते ऽथायुः, पुंस्युदन्तोऽपि चायुषि । सङ्कल्पे स्याद् विकल्पोऽपि, मनोऽनिद्रियमप्यथ ॥१२४॥ शर्म सौख्यं पीडा बाधः, चर्चा चर्चाऽपि कथ्यते । विप्रतीसारोऽनुशये ऽथाऽर्था अपीन्द्रियार्थवत् ॥१२५॥ सुशीमस्तु सुषीमोऽपि, कक्खटे खक्खटोऽपि च । जरठे जरढोऽम्लेऽम्ब्लो , रावो रव इव स्मृतः ॥१२६॥ निषादो निषदो गों, गर्जा भद्रोऽपि मन्द्रवत् । आकरो निकरें युग्मे, जकुटोऽथ कनीयसि ॥१२७॥ कनिष्ठं विग्रहः शब्दप्रपञ्चे निखिले पुनः । स्यान्निःशेषमन्नं च, खण्डलं चापि खण्डवत् ॥१२८॥ मलीमसे कल्मषं च, निकृष्टे याव्य-रेपसी। लडहं रमणीयं च, रम्ये नित्ये सदातनम् ॥१२९॥ शाश्वतिकं च, नेदीय, इत्यन्तिकतमे स्मृतम् । एकाकिन्यवगणोऽपि, प्रागप्यादौ प्रकीर्तितम् ॥१३०॥
जरठो जरुटोऽ ॥१२६॥