________________
४७०
शिलोञ्छे मर्त्यकाण्डः रणे संस्फेट-संफेटौं, बले द्रविणमूल तथा। अवस्कन्दोऽपि धाटयां स्याद्, नशनं च पलायने ॥७०॥
[अभि० मूलश्लोकाङ्काः ७१२-८०३] चारकोऽपि भवेद् गुप्तौ, तापसे तु तपस्व्यपि । विप्रे ब्रह्माऽपि चाऽऽग्नीध्याऽऽग्नीध्राऽप्यथ वृषी वृसी ॥७१॥ शसने शमनं चाथ, दधिप्राज्यं पृषातके। अग्निहोत्र्यग्न्याहितोऽप्यथोपवासे समाविमौ ॥७२॥ उपवस्त्रमौपवस्तमुपवीते प्रचक्षते। ब्रह्मसूत्रं पवित्रं च, वाल्मीकौ द्वाविमावपि ॥७३॥ मैत्रावरुण्यादिकवी, पशुरामोऽपि भार्गवे । योगीशो याज्ञवल्क्योऽपि, दाक्षीपुत्रोऽपि पाणिनौ ॥४॥ स्फोटायनः, स्फोटायनः, कात्यो वररुचौ तथा। कारणवः पालकाप्ये, चाणक्यश्चणकात्मजे ॥७५॥ वैशेषिके कणादोऽपि, जैनोऽनैकान्तवाद्यपि । चार्वाके लौकायितिकः, कृषिः प्रमृतमित्यपि ॥७६॥
चाऽऽग्नीध्राऽऽग्नीध्यपि ॥७१॥ दधिखाय्यं (दीधीखाय्यम् ) पृषातके । अग्निहोत्रिण्यग्न्याहितोऽप्युपवासे समाविमौ ॥७२॥ प्रचक्ष्यते ॥७३॥ याज्ञवल्क्योऽथ . ॥४॥ जनोऽनेकान्तवाद्यपि । कृषिः प्रसृतमित्यपि ॥७६॥