________________
शिलोन्छे देवकाण्डः कथ्यन्ते व्यन्तरा वानमन्तरा अपि सूरिभिः । द्योतस्तथा पृष्णिवृष्णी, प्रोक्ता रश्म्यभिधायकाः ॥८॥ समुद्रनवनीतं च, विदुश्चन्द्रमसं बुधाः । चन्द्रिका चन्द्रिमाऽपि स्यादिल्बला इन्वका अपि ॥९॥ अनुराधाऽप्यनराधा, गुरुः सप्तर्षिजोऽपि च । सौरिः सौरोऽपि राहुस्तु, ग्रहकल्लोल इत्यपि ॥१०॥
[अभिधानमूलश्लोकाङ्काः-२५-१२१] अभ्रपिशाचोऽपि तथा, नाडिका नालिकाऽपि च । रात्रौ यामवती-तुङ्गयौ, निःसंपातो निशीथवत् ॥११॥ तमः स्यादन्धातमसं, वर्षाः स्युर्वरिपा अपि । खेऽन्तरीक्षं सांसृष्टिकमपि तत्कालजे फले ॥१२॥ मेघमाला कालिकाऽपि, वार्दलं चापि दुर्दिनं । सूत्रामाऽपीन्द्रे शतारः, अतधारोऽपि चाशनौ ॥१३॥ आश्विनेयौ स्वर्गवैद्यौ, हर्यक्षोऽपि धनाधिपः । अजगवर्मजगावमपि शङ्करधन्वनि ॥१४॥ गौयाँ दाक्षायणीश्चयौं, नारायणे जलेशयः । कौमोदकी कोपोदकी, आ ईः शब्दौ स्त्रियां मतौ ॥१५॥
द्योतिस्तथा वृष्णिपृष्णो ॥ ८ ॥
।
१