________________
४३६
शेषनाममालायां देवकाण्डः पक्षः कृष्णः सितो द्वेधा, कृष्णो निशाहयोऽपरः । शुक्लो दिवाह्वयः पूर्वो, मासे वर्षांशको भवेत् ॥२२॥ वर्षकोशो दिनमलः, फल्गुनालश्च फाल्गुने । चैत्रे मोहनिकः कामसखश्च फाल्गुनानुजः ॥२३॥ वैशाखे तूच्छरो ज्येष्ठमासे तु खरकोमलः । ज्येष्ठामूलीय इति च, कार्तिके सैरिकौमुदौ ॥२४॥ हिमागमस्तु हेमन्ते, वसन्ते पिकबान्धवः ।। पुष्पसाधारणश्चापि, ग्रीष्मे तूष्मायणो मतः ॥२५॥ आखोर-पद्मौ वर्षे तु, ऋतुवृत्तियुगांशकः । कालग्रन्थिर्मासमलः, संवत्सर्वतुशारदौ ॥२६॥ वत्स इड्वत्सर इडावत्सरः परवाणिवत्। नक्षत्रवर्त्मनि पुनर्ग्रहनेमिनभोऽवटी ॥२७॥ छायापथश्च मेघे तु, व्योमधूमो नभोध्वजः । गडयित्नुर्गदयत्नुमिसिरिवाहनः ॥२८॥ खतमालोऽप्यथासारे, शरासम्पात इत्यपि । करकेऽम्बुघनो मेघकफो मेघास्थिमिज्जिका ॥२९॥
वर्षांसको-पु० ॥२२ ॥ फाल्गुनालस्तु ॥२३॥ - वैशाखे तूच्छिरो-सू० । सैर-कौमुदौ-पु० ॥२४ ॥ नभो वटो ॥२७॥ गण्डयित्नुर्गदयित्नुमिसि ॥२८॥ मेघास्थिपुजिका ॥२९॥
५ . ६७