________________
१६२०
व्यवहारकाण्डम्
उदकधारणमिति । जलं धारयन्तं, सेतुं, भिन्दतः, तत्रैव सेतौ, अप्सु निमज्जनं दण्ड: । अनुदकं सेतुं, भिन्दतः, उत्तमः साहसदण्ड: । भग्नोत्सृष्टकं, स्वयं भग्नमसंस्कृतविसृष्टं, सेतुं भिन्दतः, मध्यमः साहसदण्ड: । विषदायकमिति । तादृशं, पुरुषं, स्त्रियं च पुरुषघ्नीं पुरुषघातिनीं, अप: प्रवेशयेद्, अगर्भिणीं, सा चेद् गर्भिणी न भवति । गर्भिणीं मासावरप्रजातामिति । सा चेद् गर्भिणी, प्रसवानन्तरमेकमासेऽतीते तामप्सु प्रवेशयेत् । पतिगुरुप्रजाघातिकामित्यादि । संधिच्छेदिकां, संधि छित्त्वा चौर्यकारिणीम् । गोभिः पादयेत् पादाघातेन मारयेत् । 'प्रातिपदिकाद्धात्वर्थ' इत्यादिना पादशब्दात् पादाघातवृत्तेर्णिच् ।
विवीतक्षेत्रेत्यादि । विवीतक्षेत्राद्यादीपनकर्तारम् । राजाक्रोशकमन्त्रभेदकयोरिति । तयो:, अनिष्टप्रवृत्तिकस्य राजमरणाद्यनिष्ठवार्ताप्रसारकस्य, ब्राह्मणमहानसावलेहिनश्च ब्राह्मणमहानसादन्नमपहृत्य भुञ्जानस्य च, जिह्वां, उत्पाटयेत् छिन्द्यात् । प्रहरणावरणस्तेनमिति । आयुधस्यावरणस्य च चोरं, अनायुधीयं अनस्त्रजीविनं, इषुभि: घातयेत्। आयुधीयस्योत्तमः स चेदायुधादिचोर आयुधजीवी तस्योत्तमसाहसः। मेढ्रफलोपघातिन इति । लिङ्गाण्डयोः रतिसामर्थ्यभञ्जकस्य, तदेव मेढूफलमेव, छेदयेत् । जिह्वानासोपघात इति । जिह्वाया रसास्वादनशक्त्युपघाते नासाया गन्धग्रहणशक्त्युपघाते च संदंशवध: कनिष्ठिकाङ्गुष्ठयोश्छेदनं दण्डः ।
एत इति । एत उक्ता: क्लेशदण्डाः, महात्मनां मन्वादीनां, शास्त्रेषु, अनुगता अनुज्ञाता विहिता: । अक्लिष्टानां अदुष्कराणां अल्पानामित्यर्थः, पापानां शुद्धवधः अक्लेशदण्डः, धर्म्यः न्याय्यः स्मृतः । श्रीम.
अतिचारदण्ड:
अतिचारदण्डः । ब्राह्मणमपेयमभक्ष्यं वा संग्रासयत उत्तमो दण्डः, क्षत्रियं मध्यमः, वैश्यं पूर्वः साहसदण्डः, शूद्रं चतुष्पञ्चाशत्पणो दण्डः । स्वयंप्रसितारो निर्विषयाः कार्याः । परगृहाभिगमने दिवा पूर्वः साहसदण्डः, रात्रौ मध्यमः । दिवा रात्रौ (१) कौ. ४।१३.
बा सशस्त्रस्य प्रविशत उत्तमो दण्डः । भिक्षुकवैदेहकौ मत्तोन्मत्तौ बलादापदि चातिसंनिकृष्टाः प्रवृत्तप्रवेशाश्चादण्ड्याः, प्रतिषेधात् । स्ववेश्मनो विरात्रादूर्ध्वं परिवार्यमारोहतः पूर्वः साहसदण्डः । परवेश्मनो मध्यमः । ग्रामाराम - वाटभेदिनश्च ।
अतिचारदण्ड इति सूत्रम् । अतिचारस्य अभक्ष्यभक्षणागम्यागमनादेर्दण्डोऽभिधीयत इति सूत्रार्थः । चोरादिकण्टकशोधनकथनानन्तरमवशिष्टं स्वधर्मव्यतिक्रमिणां कण्टकानां शोधनमिह प्रतिपाद्यते । ब्राह्मणमपेयमित्यादि । संग्रासयत : संग्रसमानं प्रयोजयतः । शेषं स्फुटम् । स्वयंग्रसितार इत्यादि । विनैव परप्रेरणां अपेयाभक्ष्यग्रासिनः, निर्विषयाः कार्याः देशान्निष्कासयितव्याः । परगृहाभिगमन इत्यादि । सशस्त्रस्य प्रविशतः शस्त्रसहितस्य परगृहं प्रविशतः । भिक्षुकवैदेहकाविति । तौ; मत्तोन्मत्तौ बलात् मधुपानविकृतचित्तः विभ्रान्तचित्तश्चेत्येतौ बलात्कारेण, आपदि च आपत्समये आपन्नाश्च, अतिसंनिकृष्टा बान्धवाः, प्रवृत्तप्रवेशाश्च सौहार्दारब्धप्रवेशाश्च, अदण्ड्याः अर्थात् परगृहं प्रविशन्तः । कदा, अन्यत्र प्रतिषेधाद् गृहजनप्रतिषेधाभावे । स्वबेश्मन इति । स्वगृहस्य, विरात्रादूर्ध्वं रात्रियामापगमात् परतः, परिवार्य प्राकारकुड्यादिकं, आरोहतः, पूर्व: साहसदण्ड: । परवेश्मनः, परिवार्यमारोहतो, मध्यमः । ग्रामारामवाटभेदिनश्च ग्रामवृतिमुपवनवृतिं च भित्त्वा ग्राममुपवनं च प्रविशतश्च मध्यमः इति संबध्यते ! श्रीमू. ग्रामेष्वन्तः सार्थिका ज्ञातसारा वसेयुः । मुषितं प्रवासितं चैषामनिर्गतं रात्रौ ग्रामस्वामी दद्यात् । ग्रामान्तेषु वा मुषितं प्रवासितं विवीताध्यक्षो दद्यात् । अविवीतानां चोररज्जुकः । तथाप्यगुप्तानां सीमावरोधविचयं दद्युः । असीमावरोधे . पञ्चग्रामी दशग्रामी वा ।
दुर्बलं वेश्म शकटमनुत्तब्धमूर्धस्तम्भं शस्त्रमनपाश्रयमप्रतिच्छन्नं श्वभ्रं कूपं कूटावपातं वा कृत्वा हिंसायां दण्डपारुष्यं विद्यात् ।
(१) कौ. ४।१३.