________________
प्रशस्तैव । अन्या तु तस्य निन्दिता । शबलग्रहणेनाचिरस्थायिता फलस्योच्यते । ने यावज्जीवं तत्फलं भवति । मेधा.
'पार्श्विकद्यूतचौर्यार्तिप्रातिरूपकसाहसैः । व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥ पार्श्विकः पार्श्वस्थः उत्कोचादिना धनमर्जयति । ज्ञात्वा धनागमं कस्यचिदहं ते दापयामि मह्यं त्वया किञ्चिद्दातव्यमिति यो गृह्णाति स पार्श्विकः । न कर्ता कारयिता, तटस्थो न त्वज्ञतया गृह्णाति । यथा च गृहीत्वाऽघमणीय प्रतिभूत्वेनावतिष्ठते । प्रतिरूपको दाम्भिकः । कुसुम्भाद्युपहितकुङ्कुमादिविक्रयो व्याजः । आर्तिः परपीडा। प्रच्छन्नहरणं चौर्यम् । प्रसभं साहसम् । ननु चौर्यसाहसाभ्यां स्वाम्यमेव नास्ति तन्निमित्तेष्वपठितवात् । 'स्वामी रिक्थयसंविभागपरिग्रहाधिगमेष्विति । तथा 'विद्याशिल्पं भृतिमेवेत्यादि । तथा 'सप्त वित्ता गंमा धर्म्याः' इति च । अथास्मादेव वचनात्स्वाम्यकारणत्वमनयोरिति । कर्थे तर्हि बलाद्भुक्तं न जीर्यतीति ।
केचित्तावदाहुः । नैवायं पाठोऽस्ति ' द्यूतचौर्यात' ति । अपि तु वैर्यार्तीति, वैरिणः सकाशाद्यत् गृह्यते संधानकाले, यद्येतावद्ददासि तदा त्वया संधिं करोमि, शक्तिविहीनतया ददाति । साहसमपि न प्रसह्य हरणं, किं तर्हि, यत्प्राणसंदे हे नाते पीतयतृतया, रहसि राजप्रतिषिद्धप्रतिक्रयेण च । अन्ये तु मन्यन्ते । नैव बलादपहरणेन स्वाम्यं भोगेन वा जरणं विरुध्यते, यंत्र बलं प्रथम"मपहारकाले, असत्यपि बले उपेक्षया भोगस्तत्र स्वाम्यम् । यत्र त्वारम्भात्प्रभृति सार्वकालिको बलोपभोगस्तन्न जीर्यतीति कथ्यते । तस्मादुभयमविरुद्धम् । इदं युक्तं, यच्चौर्य साहसाभ्यां स्वत्वानुत्पेत्या पाठविभागः कृतः, अन्यैश्व स्मृतिकारैः स्वत्वहेतुष्वपरिगणनात् । मेधा. ज्येष्ठमहिमा
ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । पितॄणामनृणश्चैव स तस्मात्सर्वमर्हति ॥
(१) मस्मृ. ४।२२९.
(२) मस्मृ. ९/१०६, १०७.
१' (न० ). ५ त्पत्तिपा.
२ यातृत.
६ गकृतां अ.
दायभागः
३ यतो ब.
१९८७
यस्मिन्नृणं संनयति येन चानन्त्यमश्नुते । स एव धर्मजः पुत्रः कामजानितरान् विदुः ॥ मेधातिथिना तु "उत्पन्नमात्रेण ज्येष्ठेन संस्काररहितेनापि मनुष्यः पुत्रवान् भवति । ततश्च नापुत्रस्य लोकोऽस्तीत्यलोकता परिहृता । तथा 'प्रजया पितृभ्यः' इति श्रुतेः 'पुत्रेण जातमात्रेण पितॄणामनृणश्च' इत्युक्तम् । यस्मिन्नृणमिति तु साधारणम् । अत एव तत्र यस्मिन् जाते ऋणं शोधयति येन जातेनामृतत्वं च प्राप्नोति । तथा च श्रुतिः 'ऋणमस्मिन्निति । स एव पितुर्धर्मेण हेतुना जातः पुत्रो भवति । तेनैकेनैव ऋणापनयनाद्युपकारस्य कृतत्वात् । इतरांस्तु ऐच्छिकान्मुनयो जानन्ति” इति तेनोक्तम् । मेधा. ( बाल. २।१३५ ) [ पृ. २४१ ] अविभाज्यद्रव्यविशेषाः स्त्रियोऽविभाज्याः तेण्डुलानि च वस्त्राणि अलङ्कारश्च वाहनम् । उदकं च स्त्रियश्चापि न विभाज्याः समा अपि । । बृहस्पतिः
पुत्रमहिमा
४ त्वस.
वृषोत्सर्ग गया श्राद्धमिष्टापूर्त तथैव च । पालयिष्यति वार्धक्ये श्राद्धं दास्यति चान्वहम् ॥ यथा जलं कुप्लवेन तरन् मज्जति मानवः । तथा पिता कुपुत्रेण तमस्यन्धे निमज्जति ॥ गुणाधिक्ये भागाधिक्यम्
वयोविद्यातपोभिश्च व्यंशं हि लभते धनम् ॥
कात्यायनः
विषमविभागहेतुः कर्मानुष्ठानतारतम्यम् यथा यथा विभागातं धनं यागार्थतामियात् । तथा तथा विधातव्यं विद्वद्भिर्भागगौरवम् ॥
* इदं श्लोकद्वयं पूर्वं दायभागे (पृ. ११९६ ) समुद्धृतमपि बालम्भट्ट्यां समुपलब्धमेधातिथिभाष्यस्य समुद्धरणार्थं पुनः समुद्धृतम् ।
(१) सवि. ३७२ ( मनुस्मृतौ नोपलभ्यते ). (२) विर. ५८६.
(३) विर. ५८६; दांत. १७२; विच. ८०.
(४) नृप्र. २१८.
(५) स्मृच. २६५ गातं ( गाच्च) यागा ( याथा ); पमा. ४९० नृप्र. ३५: दानि २ गाप्तं ( गस्थं ); समु. १२८०