________________
अभ्युपेत्याशुश्रूषा
ण्याहुरनापदि । विशेषतो गृहक्षेत्रदानधर्मान्नविक्रयाः ॥ | यथाश्रुत्येव । नोदकपूर्वाणि ।
भारद्वाजः भयदानलक्षणम्
एतान्येव प्रमाणानि भर्ता यद्यनुमन्यते ॥' इत्यादि । भिक्षादानमपि भर्तुरनुज्ञया विना न कार्यम् । तथा च मनु: - 'बालया वा युवत्या वा वृद्धया वाऽपि योषितां । न स्वातन्त्र्येण कर्तव्यं कार्य किञ्चिद्गृहेष्वपि ॥ ' मभा.
आपस्तम्बः
दानाङ्ग नियमः
सर्वाण्युदकपूर्वाणि दानानि ।
सर्वाणीति वचनात् भिक्षाऽप्युदकपूर्वमेव देया । उ. यथाश्रुति विहारे ।
विहारे यज्ञकर्मणि यानि दानानि दक्षिणादीनि तानि (१) आघ. २२९/८; हिघ २४; सवि. २८४; समु. ९७.
(२) आध. २/९/९; हिध. २४.
आपस्तम्बः अन्तेवासिगुरुवृत्तिः
तस्मिन् गुरोर्वृत्तिः ।
. तस्मिन्नन्तेवासिनि गुरोर्वृत्तिः । वृत्तेः प्रकारो वक्ष्यते । उ.
पुत्रमिवैनमनुकाङ्क्षन् सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्यां प्राहयेत् ।
एनं शिष्यं पुत्रमिव अस्याभ्युदयः स्यादिति अनुकाङ्क्षन् सर्वेषु धर्मेषु किञ्चिदप्यनपच्छादयमानः अगूहन् सुयुक्तः सुष्ठु अवहितः तत्परो भूत्वा विद्यां ग्राहयेत् ।
उ.
नै चैनमध्ययनविघ्नेनात्मार्थेषूपरुन्ध्यादनापत्सु । न चैनं शिष्यमध्ययनविघ्नेन आत्मप्रयोजनेष्वनापत्सूपरुन्ध्यात् । उपरोध: अस्वतन्त्रीकरणम् । 'अनापस्विति वचनादापद्यध्ययनविघातेनाऽप्युपरोधे न दोषः ।
उ.
(१) आघ. १।८।२४; हिध. १८. (२) आघ. १।८।२५; हिध. १८. (३) भध. १/८/२६; हिव. १८.
आक्रोशादर्थहीनानां प्रतीकारं च यद्भयात् । प्रदीयते तत्कर्तृभ्यो भयदानं तदुच्यते ॥
अभ्युपेत्याशुश्रूषा
स्मृत्यन्तरम् दानाङ्गनियम:
प्रतिश्रुत्याप्रदाने दण्डः
प्रतिश्रुत्याप्रदातारं सुवर्ण दण्डयेन्नृपः ॥
(२) समु. ९७.
देद्यात्कृष्णाजिनं पुच्छे गां पुच्छे करिणं करे । केसरेषु तथैवाश्वान दास शिरसि दापयेत् ॥ अग्निपुराणम्
(१) सवि. २८६. (३) अपु. २२७।१२.
१९७३
उ.
(१) आघ. १।८।२७; हिध. १८.
(२) आघ. १।८।२८; हिध. ११८.
(३) आघ. १।८।२९; हिध. ११८.
अन्तेवास्यनन्तेवासी भवति विनिहितात्मा गुरानैपुणमापद्यमानः ।
'आपद्यमान' इत्यन्तर्भावितण्यर्थः । योऽन्तेवासी विनिहितात्मा द्वयोराचार्ययोः विविधं निहितात्मा गुरावनैपुणमापादयति — न अनेन अयं प्रदेश: सम्यगुक्त इति, सोऽन्तेवासी न भवति । स त्याज्य इत्यर्थः । अपर आह-- योऽन्तेवासी वाङ्मनः कर्मभिरनैपुणमापद्यमानो गुरौ विसदृशं निहितात्मा भवति अनुरूपं न शुश्रूषते सोऽन्तेवासी न भवतीति ।
उ.
आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाणः । आचार्योऽप्यनाचार्यो भवतीति, त्याज्य इत्यर्थः । किं कुर्वन् ? श्रुतात्परिहरमाणः तेन तेन व्याजेन विद्याप्रदानमकुर्वन् ।
उ.
अपराधेषु चैनं सततमुपालभेत ।
अपराधेषु कृतेष्वेनं शिष्यं सततमुपालभेत, इदमयुक्तं त्वया कृतमिति ।
उ.