________________
१९३०
व्यवहारकाण्डम्
मणीनामपवेधे च दण्डः प्रथमसाहसः ।। सभैर्हि विषमं यस्तु चरेद्वै मूल्यतोऽपि वा। स प्राप्नुयादमं पूर्व नरो मध्यममेव वा ।। बन्धनानि च सर्वाणि राजा मार्गे निवेशयेत् । दुःखिता यत्र दृश्येरन् विकृताः पापकारिणः ।। प्राकारस्य च भेत्तारं परिखाणां च पूरकम् । द्वाराणां चैव भकतारं क्षिप्रमेव प्रवासयेत् ।। अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः। मूलकर्मणि चानाप्तैः कृत्यासु विविधासु च ॥ अबीजविक्रयी चैव बीजोत्क्रष्टा तथैव च । मर्यादाभेदकश्चैव विकृतं प्राप्नुयाद्वधम् ।। सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः । प्रवर्तमानमन्याये छेदयेल्लवशः क्षुरैः ॥ सीताद्रव्यापहरणे शस्त्राणामौषधस्य च । कालमासाद्य कार्य च राजा दण्डं प्रकल्पयेत् ।।
सप्ताङ्गराज्यव्यसननिवारणचिन्तनम् स्वाम्यमात्यौ पुरं राष्ट्र कोशदण्डौ सुहृत्तथा । सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते ।। सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् । पूर्व पूर्व गुरुतरं जानीयाद्व्यसनं महत् ।। सप्ताङ्गस्येह राज्यस्य विष्टब्धस्य त्रिदण्डवत् । अन्योन्यगुणवैशेष्यान्न किश्चिदतिरिच्यते ॥ तेषु तेषु तु कृत्येपु तत्तदङ्गं विशिष्यते । येन यत्साध्यते कार्य तत्तस्मिन् श्रेष्ठमुच्यते ॥ चारेणोत्साहयोगेन क्रिययैव च कर्मणाम् । स्वशक्ति परशक्तिं च नित्यं विद्यान्महीपतिः ।। पीडनानि च सवाणि व्यसनानि तथैव च। आरभेत ततः कार्य संचिन्त्य गुरुलाघवम् ॥ आरभतव कमोणि श्रान्तः श्रान्तः पुनः पुनः । कर्माण्यारभमाणं हि पुरुष श्रीनिषेवते ।।
युगकृत् राजा कृतं त्रेतायगं चैव द्वापरं कलिरेव च । राज्ञो वृत्तानि सर्वाणि राजा हि युगमुच्यते ॥ कलि: प्रसुप्तो भवति स जाग्रद्वापर युगम् । कर्मस्वभ्युद्यतस्त्रेता विचरंस्तु कृतं युगम् ॥ (१) मस्मृ. ९।२९४-३२५.
देवकार्यकारणात् देवतामयो राजा इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च । चन्द्रस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत् ।। वार्षिकांश्चतुरो मासान् यथेन्द्रोऽभिप्रवर्पति । तथाऽभिवत्स्वं राष्ट्र कामैरिन्द्रव्रतं चरन् ।। अष्टौ मासान् यथादित्यस्तोयं हरति रश्मिभिः । तथा हरेत् करं राष्ट्रान्नित्यमर्कव्रतं हि तत् ॥ . प्रविश्य सर्वभूतानि यथा चरति मारुतः । तथा चारैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम् ।। यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति । तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम् ॥ वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते । तथा पापान्निगृह्णीयात्रतमेतद्धि वारुणम् ॥ परिपूर्ण यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः । तथा प्रकृतयो यस्मिन् स चान्द्रबतिको नृपः ।। प्रतापयुक्तस्तेजस्वी नित्यं स्यात्पापकर्मसु । दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम् ।। यथा सर्वाणि भूतानि धरा धारयते समम् । तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥ एतैरुपायैरन्यैश्च युक्तो नित्यमतन्द्रितः । स्तेनान राजा निगृह्णीयात्स्वराष्ट्रे पर एव च ।।
ब्राह्मणरक्षणं राजधर्मः परामप्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत् । ते ह्येनं कुपिता हन्यः सद्यः सबलवाहनम् ॥ यैः कृतः सर्वभक्ष्योऽग्निरपेयश्च महोदधिः । नयी चाप्यायितः सोमः को न नश्येत्प्रकोप्य तान् ॥ लोकानन्यान सृजेयर्य लोकपालांश्च कोपिताः । देवान कर्युरदेवांश्च कः क्षिण्वंस्तान समृध्नुयात् ॥ यानुपाश्रित्य तिष्ठन्ति लोका देवाश्च सर्वदा। ब्रह्म चैव धनं येषां को हिस्यात्तान जिजीविपुः।। अविद्वांश्चैव विद्वांश्च ब्राह्मणो देवतं महत् । प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ।। श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति । हूयमानश्च यज्ञेषु भूय एवाभिवर्धते ।। एवं यद्यप्यनिष्टषु वर्तन्ते सर्वकर्मसु । . सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत् ॥