________________
१९२८
व्यवहारकाण्डम्
शूद्रो दास्यमेवार्हति
शूद्रं तु कारयेद्दास्यं क्रीतमक्रीतमेव वा । दास्यैव हि सृष्टोऽसौ स्वयमेव स्वयम्भुवा ॥ न स्वामिना निसृष्टोऽपि शूद्रो दास्याद्विमुच्यते । निसर्गजं हि तत्तस्य कस्तस्मात्तदपोहति ॥
सप्तविधा दासाः
ध्वजाहतो भक्तदासो गृहजः क्रीतदत्त्रिमौ । पैतृको दण्डदासच सप्तैते दासयोनयः ॥ भार्यापुत्रदाता न धनस्वाम्यमर्हन्ति भार्या पुत्रश्च दासच त्रय एवाधनाः स्मृताः । यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥ ब्राह्मगेन शूद्रद्रव्यं हरणीयम् विस्रब्धं ब्राह्मणः शूद्राद्रव्योपादानमाचरेत् । न हि तस्यास्ति किञ्चित्स्वं भर्तृहार्यधनो हि सः॥ वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् । तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेतामिदं जगत् ॥ राशा प्रत्यहं व्यवहारोऽवेक्षणीयः अहन्यहन्यवेक्षेत कर्मान्तान् वाहनानि च । आयव्ययैौ च नियतावाकरान् कोशमेव च ॥ (१) राजधर्माणामनुसंधानार्थं कर्मान्ता: कृषिशुल्कस्थानानि, वाहनानि हस्त्यादि आयव्ययमिदमस्य प्रविष्टमिदं निर्यातमित्येवं सततं गवेषणीयम् । धातवः सुवर्णाद्युत्पादे भवन्ति भूमयः । कोशो द्रव्यनिश्चलस्थानम् । मेधा. (२) प्रत्यहं कर्मान्तान् कृषिशुल्कादिस्थानानि धनसंचयं च, योगक्षेमार्थं प्रति जागृयादिति व्यवहारदर्शनागोरा. शक्तस्यापि राजधर्मापरित्यागार्थ पुनर्वचनम् । (३) कर्मान्तान् शस्त्रपातादिकर्मशालाः । आकरान् सुवर्णाद्युत्पत्तिस्थानानि । मवि.
आकरा
(४) प्रत्यहं तदधिकृतद्वारेण प्रारब्धदृष्टादृष्टार्थकर्मणां निष्पत्तिं नृपतिर्निरूपयेत् । तथा हस्त्यश्वादीनि किमद्य प्रविष्टं किं निःसृतामिति, सुवर्णरत्नोत्पत्ति - स्थानानि, भाण्डागारं चावेक्षेत । व्यवहारदर्शनाशक्तोऽपि
(१) मस्मृ. ८ ४१९.
१ स्थानादपवाहनम् । हस्त्यादि.
राजा धर्मान्न परित्यजेदिति दर्शयितुमुक्तस्यापि पुनर्वचनम् ।
ममु.
(५) 'राजधर्मान् प्रवक्ष्यामि' इत्युपक्रम्याध्यायद्वयसमाप्यं सार्थवादमुपसंहरति-- अहन्यहनीति द्वाभ्याम् ।
*मच.
(६) कर्मान्तान् कर्मनिष्पत्तिं, नियतौ राजशास्त्रसिद्धौ ।
नन्द.
व्यवहारप्रकरणोपसंहारः
एवं सर्वानिमान् राजा व्यवहारान् समापयन् । व्यपोह्य किल्विषं सर्वं प्राप्नोति परमां गतिम् ॥ ( १ ) उक्तेन प्रकारेण व्यवहारान्रणादीन् समापयन् निर्णयावसानं कुर्वन्, यत्किञ्चित्तत्सर्वमविज्ञातदोषं तत्सर्वं व्यपोह्यापनुद्य पापं परमां गतिमभिप्रेतां स्वर्गाप वर्गभूमिं प्राप्नोति लभते । 'मेधा.
(२) एवमुक्तनीत्या एतानृणादानादीन् व्यवहारान् निर्णयेनान्तं नयन् राजा अपक्षपातव्यवहारदर्शनेन शास्त्रदानसामर्थ्यात् प्रमादकृतसंचितपापं अपनुद्य ब्रह्मलोकं प्राप्नोति इति समस्तव्यवहारासमाप्तावपि प्रधानविवादसमाप्त्यभिप्रायेणेदं फलकथनम् । गोरा. (३) बह्वर्भविषयत्वेनाध्यायस्य दीर्घत्वादतः परमध्यायानुसंतानेऽतिदीर्घता स्यादिति अपर्यवसित एव प्रतिज्ञातार्थेऽध्यायमुपसंहरति - एवमिति । समापयन् संस्थां नयन् व्यपोह्य निरुह्य । परमां गतिं ब्रह्मप्राप्तिलक्षणामिति । वि. (४) एवमुक्तप्रकारेणैतान् सर्वान् ऋणादानादीन् व्यवहारांस्तत्त्वतो निर्णयेनान्तं नयन् पापं सर्वमपहाय ममु स्वर्गादिप्रातिरूपामुत्कृष्टां गतिं लभते ।
नृपाश्रितो व्यवहारः - कण्टकोद्धारः एवं धर्म्याणि कार्याणि सम्यक्कुर्वन् महीपतिः । देशा लव्धांलिप्सेत लब्धांश्च परिपालयेत् ॥
* शेषं ममुवत् ।
X अत्र संगृहीतानां कण्टकोद्धारविषयक श्लोकानां व्याख्यासंग्रहः स्थलादिनिर्देशश्च स्तेयसाहससीमाविवादादिप्रकरणेषु द्रष्टव्यः । अन्ये च ढोका राजनीतिकाण्डे संग्रहीष्यन्ते । अत्र च दण्डमातृकायां ये श्लोका न संगृहीतास्त एव संगृहीताः ।
(१) मस्मृ. ८|४२०६ गोरा. किल्बिषं (कल्मषं ); पमा. ५८३; दीक. ५६ किल्विषं (कल्मषं ) पू. : ५७ उत्त.