________________
कर्ण
|
च्यन्त इति सूत्रार्थः। प्रकीर्णकं त्विति । प्रतिपाद्यत इति शेपः । याचितकेत्यादि । याचितकावक्रीतकाहितकानि प्रतीतानि, निक्षेपको भूषणादिनिर्माणार्थमर्पितं सुवर्णादि, एतेषां यथादेशकालं अदाने द्वादशपणो दण्ड: । यामच्छायासमुपवेशसंस्थितीनां वा देशकालातिपातने 'नक्तममुकयामे दिवाऽमुकच्छायानालिकायां चामुकदेशे संभूयोपवेष्टव्यमित्येवं कृतसंकेतानां समुपवेशव्यवस्थानां देशकालातिक्रामणे वा द्वादशपणो दण्डः । इदं समयस्यानपाकर्मशेषम् । गुल्मतरदेयं गुल्मतारणभृतिं नदीतारणभूतिं च ब्राह्मणं साधयतः ब्राह्मणात् प्रयत्नेन गृह्णत: द्वादशपणो दण्डः । प्रतिवेशानुवेशयोरुपरि निमन्त्रणे च प्रतिवेशः प्रतिमुखगृहं अनुवेशोऽनन्तरगृहं तयोर्विद्यमानं श्रोत्रियमतिक्रम्यान्यस्य निमन्त्रणे च, द्वादशपणो दण्डः । संदिष्टमिति । प्रतिश्रुतमर्थमप्रयच्छतः, भ्रातृभार्थी हस्तेन लङ्घयतः अवलम्बमानस्य, रूपाजीवां गणिकां, अन्योपरुद्धां गच्छतः, अष्टचत्वारिंशत्पणो दण्डः । इदं साहसशेषम् । परवक्तव्यं परपरीवादगोचरं पण्यं क्रीणानस्य, अष्टचत्वारिंशत्णो दण्डः । इदमस्वामिविक्रयशेषम् । समुद्रं मुद्रया युक्तं गृहं उद्भिन्दतः, अष्टचत्वारिंशत्पणः । इदं साहसशेषम् । सामन्त`चत्वारिंशत्कुल्याः सामन्तिकानां चत्वारिंशतः कुलानां बाधा आचरतश्च, अष्टचत्वारिंशत्पणो दण्डः । इदं वास्तुकशेषम् ।
कुनीवी ग्राहकस्यापव्ययन इति । कलसाधारणं धनं गृहीत्वाऽपलपने, विधवां छन्दवासिनीं स्वच्छन्दवर्तिनीम· कामां, प्रसह्याधिचरतः बलाद् गच्छतः, चण्डालस्य आर्यां स्पृशतः, प्रत्यासन्नं अन्तिकस्थं आपदि अनभिधावतः अभिधाव्यारक्षतः, निष्कारणमभिधावनं कुर्वतः, शाक्यजीवकादीन् शाक्यान् क्षपणकादींश्च वृषलप्रव्रजितान् देवपितृकार्येषु भोजयतः, शत्यो दण्डः शतपणदण्ड: ।
शपथ वाक्यानुयोगमनिसृष्टं कुर्वत इति । आधिकरणिकाः साध्याद्यनुयोगं शपथपूर्वे यमनुतिष्ठन्ति स शपथ वाक्यानुयोगः तं धर्मस्थाननुज्ञातं कुर्वतः, 'युक्तकर्म चायुक्तस्य अनधिकृतस्याधिकृतकर्म कुर्वतश्च,
१९२३
क्षुद्रपशुवृषाणां पुंस्त्वोपघातिनः, दास्या गर्भे औषधेन पातयतश्च स्रावयतश्च पूर्वः साहसदण्डः ।
पितापुत्रयोरित्यादि । सार्थाभिप्रयातं ग्राममध्ये त्यजतः संघसाह्याश्रयेण प्रस्थितं रोगादिवशात् ग्रामान्तरे त्यक्त्वा गच्छतः सार्थमुख्यस्य । शेषं सुबोधम् । कान्तारे मध्यम इति । दुर्गमे अरण्ये त्यजतो मध्यमसाहसः । तन्निमित्तं भ्रेषयतः कान्तारत्यागेन निमित्तेन विगतजीवितं कुर्वतः, उत्तमसाहसः । सहप्रस्थायिषु अन्येषु सार्थान्तर्गतेषु विषये, अर्धदण्डः । श्रीमू. आचार्य शिष्यधर्मभ्रातृसमानतीर्थ्यानां वानप्रस्थयति ब्रह्मचारिविषये अन्यथा वा व्यतिक्रमे दण्डविधिः 'विवादपदेषु चैषां यावन्तः पणा दण्डाः तावती रात्री: क्षपणाभिषेकाग्निकार्यमहाकृच्छ्रवर्धनानि राज्ञश्चरेयुः | अहिरण्यसुवर्णाः पाषण्डाः साधवः । ते यथास्वमुपवासत्रतै राराधयेयुः अन्यत्र पारुष्यस्तेयसाहससंग्रहणेभ्यः । तेषु यथोक्ता दण्डाः कार्याः ।
प्रव्रज्यासु वृथाचारान् राजा दण्डेन वारयेत् । धर्मो धर्मोपहतः शास्तारं हन्त्युपेक्षितः ॥ विवादपदेषु चैषामिति । व्युत्क्रमागतानामाचार्यादीनां विवादपदेषु रिक्थविषयेषु, यावन्तः पणाः दण्डाः पराजितानां शास्त्रोक्ताः तावती: तत्समानसंख्या:, रात्रीः, क्षपणाभिषेकाद्मिकार्यमहाकृच्छ्रवर्धनानि क्षपणमुपवास: अभिषेकः स्नानं अग्निकार्य होम: महाकृछ्रं चान्द्रायणप्राजापत्यादिकं प्रशस्तव्रतं तैर्वर्धनानि श्रेयोयोजनानि, राज्ञश्वरेयुः राजार्थे कुर्युः, अर्थात् पराजिता आचार्यादयः । वर्तनानीति पाठे क्षपणादीनां महाकृछ्रान्तानां वर्तनानि अनुष्ठानानि राजार्थे कुर्युरित्यर्थः । अहिरण्यसुवर्णा इति। हिरण्यसुवर्णहीनाः, पाषण्डाः, साधवः धर्मशीलाः । ते कथञ्चिद् विवादपदेषु पराजयदण्डं प्राप्ता इत्यार्थे, यथास्वं उपवासव्रतैः, आराधयेयुः धर्ममुपासीरन् राजश्रेयोऽर्थे । तत्रापवादमाह — अन्यत्र पारुष्यस्तेयसाहससंग्रहणेभ्य इति । वक्ष्यमाणवाक्पारुष्यदण्डपारुष्यस्तेयादिविवादव्यतिरेकेण । के तर्हि तेषां पारुष्यादिषु दण्डास्तत्राह -- तेष्विति । तेषु विषये, यथोक्ताः पारुष्यादिप्रकरणोक्ताः, दण्डाः कार्याः । अध्यायान्ते श्लोकमाह(१) कौ. ३।१६.