________________
१९०४
व्यवहारकाण्डम्
अपि तु देशान्निर्वास्याः । अतश्च द्यूतं निषिद्धं मनुना' | चाम्नाये । तत् कुतोऽस्य प्रवर्तनविधिः कुतस्तरां इत्यादिवचनजातं कपटद्यूतविषयमिति मन्तव्यम् । सवि. ४८७-८
चैकमुखत्वनियमनमित्याशङ्कामपाकर्तुमेकमुखत्वनियमस्य प्रयोजनमाह – गूढाजीविज्ञापनार्थमिति । गूढाजीविनस्तस्कर साहसिकादयो लोककण्टकाः तज्ज्ञापनार्थम् । अयमाशयः -- प्रतिषेधातिक्रमेण प्रवृत्तौ श्येनादिवदयं द्यूतसमाह्वयस्य विधिः । तच्च लोके कण्टकप्रायजन भूयिष्ठसेव्यं सुरापानवदधर्मरूपमप्येकमुखतया प्रवर्त्यमानं कण्टकज्ञानसाधनीभूय तदुद्धरणरूपधर्मान्तरोपायतां प्रतिपद्यत इति तदेकमुखत्वनियमोऽप्युपपद्यत इति । द्यूताभियोगे जेतुरित्यादि । द्यूतविषयमभियोगं द्यूतजेता कुर्वन् पूर्वसाहसं दण्ड्यः, द्यूतपराजितस्तद्विगुणं दण्डं मध्यमसाहसम् । पराजितस्य दण्डाधिक्ये अधर्म्यजयकामुकता हेतुरित्याह-- बालिशजातीयो हीत्यादि । बालिशजातीयो मूर्खप्रायः । नेति कौटल्य इत्याचार्यमतप्रतिषेधे कारणमाह — पराजितश्वेदिति । सद् द्विगुणदण्डः क्रियेत, न कश्चन राजानमभिसरिष्यति न कोऽपि पराजितो जेतृकृतमात्मदुःखं राज्ञे निवेदयितुमागमिष्यति । माभिसरतु को दोष इति चेत् तत्राहप्रायशो हि कितवाः कूटदेविन इति । प्रायेण हि धूर्ता: कपटदेवनशीलाः । अतश्च तेभ्य एकान्तजयिभ्य आपततोऽनर्थजातात् कूटानभिज्ञतया नित्यपराजयिनामनिर्मोक्ष एवापद्येतेत्यभिप्रायः ।
तेषामिति। कितवानां, अध्यक्षाः द्यूतकर्मप्रत्यवेक्षकाः, शुद्धाः कूटरहिताः, काकणीः कपर्दान्, अक्षांश्व पायकांश्च तथाविधान्, स्थापयेयुः देवनार्थम् ।
. काकण्यक्षाणामिति । तेषां अन्योपधाने अन्येषां |स्थापितातिरिक्तानां तज्जातीयानां उपधाने, द्वादशपणो दण्ड: । इहान्यशब्दस्य सापेक्षत्वेऽपि समास आर्षः । कूटकर्मणीति । कपटाक्षादिसृष्टौ पूर्वः साहसदण्डः, जितप्रत्यादानं जितद्रव्यापहरणं च । उपधौ स्थापितेष्वेवाक्षादिषु रेखाव्यत्ययकरणलक्षणे व्याजे मणिमन्त्रादिना बुद्धिवञ्चनायां वा, स्तेयदण्डश्च चकारात् पूर्वोक्तं च
कौटिलीयमर्थशास्त्रम्
द्यूतसमाह्वयम्
द्यूतसमाह्वयम् । द्यूताध्यक्षो द्यूतमेकमूखं कारयेत् । अन्यत्र दीव्यतो द्वादशपणो दण्डः गूढाजीविज्ञापनार्थम् ।
द्यूताभियोगे जेतुः पूर्वः साहसदण्डः । पराजितस्य मध्यमः । बालिशजातीयो ह्येष जेतुकामः पराजयं न क्षमत इत्याचार्याः । नेति कौटल्य: पराजितश्चेद् द्विगुणदण्डः क्रियेत न कश्चन राजानमभिसरिष्यति । प्रायशो हि कितवा: कूटदेविनः ।
तेषामध्यक्षाः शुद्धाः काकणीरक्षांश्च स्थापयेयुः । काकण्यक्षाणामन्योपधाने द्वादशपणो दण्डः । कूटकर्मणि पूर्वः साहसदण्डः, जितप्रत्यादानम् । उपधौ स्तेयदण्डश्च ।
जितद्रव्याध्यक्षः पञ्चकं शतमाददीत, काकण्यक्षारलाशलाकावक्रयमुदकभूमिकर्मक्रयं च । द्रव्याणामाधानं विक्रयं च कुर्यात् । अक्षभूमिहस्तदोषाणां चाप्रतिषेधने द्विगुणो दण्डः ।
तेन समाह्वयो व्याख्यातः अन्यत्र विद्याशिल्पसमाह्वयादिति ।
द्यूतसमाह्वयमिति सूत्रम् । द्यूतं अक्षशलाकाद्यप्राणिक्रीडा समाह्वयो मल्लमेषकुक्कुटादिप्राणिदेवनं तयोः समाहारो द्यूतसमाह्वयं, तत्संबद्धो व्यवहारो दण्डश्चाभि-धीयत इति सूत्रार्थः। पारुष्यप्रसङ्गात् सर्वविधपारुष्यविसंवादादिदोषनिदानस्यास्येह कथनसंगतिः ।
.
द्यूताध्यक्ष इति । सः द्यूतं एकमुखं एकमार्ग एकस्मिन् प्रदेशे इत्यर्थः, कारयेत् । अन्यत्र प्रदेशान्तरे, दीव्यतः द्वादशपणो दण्डः । ननु च द्यूतमेव तावन्निन्दितं प्रतिषिद्धं च शास्त्रेषु - 'प्रकाशमेतत्तास्कर्य यद् देवनसमाह्वयम्' इति, 'प्रच्छन्नं वा प्रकाशं वा द्यूतं राष्ट्रे निवारयेद्' इति च स्मृतौ, 'अक्षैर्मा दीव्यः' इति (१) कौ. ३।२०.
जितद्रव्यादिति । जिताद् द्रव्याद्, अध्यक्षः, पञ्चकं शतं आददीत शते विंशतिभागं गृह्णीयात्, आत्मवृत्त्यर्थम् । काकण्यक्षारलाशलाकावक्रयं काकण्यः कपर्दाः अक्षाः पाशकाः अरलाः चर्मपट्टिकाजातीयाः साधनभेदा: