________________
स्त्रीसंग्रहणम्
अदण्ड्यदण्डने राज्ञो दण्ड त्रिंशद्गुणोऽम्भसि । वरुणाय प्रदातव्यो ब्राह्मणेभ्यस्ततः परम् ॥ तेन तत्पूयते पापं राज्ञो दण्डापचारजम् । शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु ॥ भार्यायामनिच्छन्त्यां विषये भर्तुः संवननकरणं, कन्यायामनिच्छन्त्यां दारार्थिनां संवननकरणं, भर्तरि अनिच्छति भार्यायाः संवननकरणं चाभ्यनुजानाति - कामं भार्यायामित्यादि । अन्यथा उक्तातिरिक्तविषये, हिंसायां संवननादिना हिंसने, मध्यमः साहसदण्डः । मातापित्रोर्भगिनीमित्यादि । मातुलानीं मातुलभार्याम् । आचार्यानीं आचार्यपत्नीम् । त्रिलिङ्गच्छेदनं मेढमुष्कच्छेदनम् । सकामा तदेव लभेतेति । मातापितृभगिन्यादिः सकामा चेत् त्रिलिङ्गच्छेदनं सस्तनभगच्छेदनं, वधं च, लभेत । दासंपरिचारकाहितकभुक्ता च तदेव लभेत तुल्यन्यायात् दासादिरपि तदेव लभेत ।
ब्राह्मण्यामगुप्तायामिति । तस्यां स्वतन्त्रायां, क्षत्रियस्य गन्तुः, उत्तमः साहसदण्ड: । सर्वस्वं सर्वस्वहरणं, वैश्यस्य दण्डः । शूद्रः ब्राह्मणीगन्ता, कटाग्निना दह्येत अग्निप्रदीपन नगरं परिगमय्य दग्धव्यः । सर्वत्र क्षत्रियादिषु - सर्वेषु विषये, राजभार्यागमने, कुम्भीपाकः तप्तभ्राष्ट्रभर्जनं
दण्डः । श्वपाकीगमन इत्यादि पुरुषमधिमेहतश्चेत्येतदन्तं वाक्याष्टकं सुबोधम् ।
मैथुन इत्यादि । तिर्यग्योनिषु गवादियोनिषु । अनामनः दुरात्मनः । द्विगुणः चतुर्विंशतिपणः ।
अदण्ड्यदण्डन इति । दण्डानर्हस्य दण्डने, राज्ञो दण्डः त्रिंशद्गुणः, गृहीताद् दण्डात्, स कस्मै दातव्यः, अम्भसि वरुणाय प्रदातव्यः जले वरुणमुद्दिश्य प्रक्षेतव्यः । ततः परं ब्राह्मणेभ्यः प्रदातव्यः ।
तेनेति । तेन तथा प्रदानेन राज्ञो दण्डापचारजं दण्डान्यथाप्रणयनजनितं, तत् पापं, पूयते शोध्यते । लूयत इति पाठे छिद्यत इत्यर्थः । कस्माद् वरुणाय दानेन राजपापं पूर्यते, हि यस्मात् कारणाद, वरुणः, नृषु, मिथ्या अनृतं व्याचरतां विधिमाचरतां राज्ञां, शास्ता शासक: । 'मिथ्या च चरताम्'
इत्यपि
पाठ: ।
श्रीमू.
मनुः संग्रहणलक्षणानि
१८५१
परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा । नदीनां वाऽपि संभेदे स संग्रहणमाप्नुयात् ॥ (१) परस्य पत्स्येति प्रकृते पुनः परस्त्रीग्रहणं मातृभगिनीगुरुपत्न्यादीनामप्रतिषेधार्थम् । न हि ताः सत्यपि परसंबन्धित्वे परस्त्रीव्यपदेश्याः । तीर्थमुच्यते येन मार्गेण नदीतडागादिभ्यो जलमानेतुमवतरन्ति, स हि विजनप्रायो भवति । नानुदकार्थेन तत्र संनिधीयते । संकेतस्थानं तादृशमत्र कल्पितायामवश्यमेव गन्तव्यमहमपि संनिधीयमानो नाशङ्क्यो भविष्यामीति उदकार्थी दिवा शौचाचारं वा करिष्यन् प्रतिपालयतीति जना मंस्यन्ते । प्रदेशान्तरे तु किमत्रायं प्रतिपालयतीति शङ्का स्यादतस्तीर्थे प्रतिषेधः । अरण्यं हि ग्रामाद्विजनो देशो गुल्मवृक्षलतादिगहनः । वेनं वृक्षसंततिः, नदीनां संभेदः समागमः । सोऽपि हि संकेतस्थानम् । स संग्रहणं प्राप्नुयात् । परस्त्रीकामत्वं संग्रहणम् । अतश्च यस्तत्र दण्डः सोऽस्य स्यादित्युक्तं भवति । अनाक्षारितस्यापि सत्यपि कारणेऽयं प्रतिषेधः । यत्त्वापस्तम्बेनोक्तं 'नासंभाष्य स्त्रियमतिव्रजेदिति तदन्येषु संनिहितेष्वेतच्छास्त्रज्ञेषु प्रकाशे एतच्छास्त्रं, भगिनी नमस्ते इत्याद्यभिवादनमेधा. मविलम्बमानेन कर्तव्यम् ।
(२) उदकावतरणे ग्रामाद्बहिर्निर्जने प्रदेशे वृक्षगुल्मलताकीर्णे वा देशे नदीनां वा संगमे, यः परस्त्रियं अनाक्षारितोऽपि पूर्व कारणादपि संभाषेत, स वक्ष्यमाणं दोषं प्राप्नुयात् । सम्यग्गृह्यते ज्ञायतेऽस्य स्त्रिया संबन्ध इति येन तत्संग्रहणम् । गोरा.
(३) संग्रहणं समीचीनं ग्रहणं परस्त्रिया आत्मीयताकरणं तत्र य उक्तो दण्डः परस्य पत्न्येत्यत्र प्रथम
(१) मस्मृ. ८।३५६; स्मृच. ९ (=) स्त्रियं... देती (स्त्रियाऽभिभाषेत ती ) वने (गृहे ) वाऽपि ( चैव ); विचि. १७३ बने (गृहे ); स्मृचि. २६; मच. वने इत्यत्र गृहे इत्यपि पाठ: ; बाल. २।२८४; सेतु. २६४ विचिक्त्; समु. १५३ स्त्रियं योऽभिवदेत्ती ( स्त्रिया यो भाषेत ती) वने (गृहे ).
१ यन्निति.
२ वनवृ.
३ काश्ये ए