SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १७७२ व्यवहारकाण्डम् शोभनाक्षिदन्त इति काणखञ्जादीनां स्तुति- | दिरीत्या स्तुतिनिन्दायां च द्वादशपणोत्तराः उत्तरोत्तरनिन्दायां द्वादशपणो दण्डः । द्वादशपणाधिकाः द्वादशपणश्चतुर्विंशतिपणः षट्त्रिंशत्पणः इत्येवंरूपा: दण्डा भवन्ति, तुल्येषु समानेषु विषये । विशिष्टेषु गुणाधिकेषु विषये, द्विगुणः दण्ड: । हीनेषु अर्धदण्डः । परस्त्रीषु विषये द्विगुणः । प्रमादमदमोहादिभिः कुत्सायां अर्धदण्डाः उक्ताः सर्वे दण्डा अर्धहीनाः । वाक्पारुष्यमिति सूत्रम् । वक्तव्यवचनं वाक्पारुष्यम् । तच्च तद्दण्डश्चाभिधीयत इति सूत्रार्थ: । तत् त्रिधा विभजते-- वाक्पारुष्यमित्यादि । उपवादोऽङ्गवैकल्यादिवचनं, कुत्सनं कुष्ठोन्मादादिवचनं, अभिभर्त्सनं घातादिभयोपदर्शनम् । शरीरेत्यादि । शरीरं प्रकृतिः स्त्रीपुरुषादिलक्षणा श्रुतं वृत्तिर्जनपद इति पञ्च विषया वाक्पारुष्यस्य, तेषां शरीरादीनां मध्ये, काणखञ्जादिभिः काण एकदृक् खञ्जः कोलः आदिना कुणिदन्तुरादिग्रहणं एतैः काणखञ्जकुणिशब्दैः शरीरोपवादेन, सत्ये काणत्वादौ यथार्थे सति त्रिपणो दण्डः । मिथ्योपवादे षट्पणो दण्डः । शोभनाक्षिदन्त इतीति । शोभनाक्षः शोभनदन्त इति रीत्या काणखञ्जादीनां स्तुतिनिन्दायां स्तुतिव्याजेन निन्दायां कृतायां, द्वादशपणो दण्ड: । श्रीम. कुष्ठोन्माद क्लैब्यादिभिः कुत्सायां च । सत्यमिथ्यास्तुतिनिन्दा द्वादशपणोत्तरा दण्डास्तुल्येषु । विशिष्टेषु द्विगुणः। हीनेष्वर्धदण्डः । परस्त्रीषु द्विगुणः । प्रमादमदमोहादिभिरर्धदण्डाः । कुष्ठोन्मादयोश्चिकित्सकाः संनिकृष्टाः पुमांसश्च प्रमाणम् । क्लीबभावे स्त्रियः मुत्रफेनः अप्सु विष्ठानिमज्जनं च । प्रकृत्युपवादे ब्राह्मणक्षत्रियवैश्यशूद्रान्तावसायिनामपरेण पूर्वस्य त्रिपणोत्तराः दण्डाः । पूर्वेणापरस्य द्विपणाधराः । कुब्राह्मणादिभिश्च कुत्सायाम् । तेन श्रुतोपवादो वाग्जीवनानां, कारुकुशीलवानां वृत्त्युपवादः, प्राग्घूणकगान्धारादीनां च जनपदोपवादा व्याख्याताः । कुत्सनविषयमाह — कुष्ठोन्मादक्लैब्यादिभिः कुत्सायां चेति । कुष्ठी उन्मत्तः क्लीब इत्यादिप्रकारेण कुत्सने च, द्वादशपणो दण्डः इति वर्तते । सत्यमिथ्यास्तुतिनिन्दासु कुष्ठादिसत्यत्वे तन्मिथ्यात्वे कुष्ठयादीन् प्रति कल्य इत्या(१) कौ. ३।१८. कुत्सनस्य सत्यासत्यविषयत्वनिर्णयप्रमाणापेक्षायामाह —कुष्ठोन्मादयोश्चिकित्सका इत्यादि। क्लीबभावे, स्त्रियः, मूत्रफेन: अनुपलभ्यमानो मूत्रे फेनः, अप्सु विष्ठानि - मज्जनं च, प्रमाणम् । प्रकृतिविषयस्योपवादस्य दण्डमाह- प्रकृत्युपवादे ब्राह्मणक्षत्रियवैश्यशूद्रान्तावसायिनामपरेण पूर्वस्येत्यादि । अन्तावसायिना चण्डालेन शूद्रस्य, शूद्रेण वैश्यस्य, वैश्येन क्षत्रियस्य, क्षत्रियेण ब्राह्मणस्य, चोपवादे, उत्तरोतरत्रिपणाधिका: दण्डाः । पूर्वेण अपरस्य उपवादे द्विपणाधराः उत्तरोत्तरद्विपणावराः दण्डाः । कुब्राह्मणादिभिश्च कुत्सायां द्विपणाधरा इत्येव । प्रकृत्युपवाददंण्डविधानं श्रुतोपवादादिष्वतिदिशति-तेनेति । उक्तेन प्रकृत्युपवादेन, वाग्जीवनानां श्रुतोपवादः विद्याकुत्सनं, कारुकुशीलवानां वृत्त्युपवाद: जीविकाकुत्सनं, प्राग्घुणकगान्धारादीनां हूणका नाम जनपदविशेष: कामगिर्युत्तरतोवृत्तिरुदीच्यः तस्य पूर्वावयवः प्राग्घूणकाः भाषायां तु 'चण्डा (ल) राष्ट्रमित्युक्तम् । गान्धाराः प्रसिद्धाः तदादीनां जनपदोपवादाश्च जनपददोषोद्भावनेन कुत्सनानि च व्याख्याताः । प्राग्घूणकेति चायं भाषापाठः । अर्थशास्त्रस्यादर्शे तु क्वचित् प्राकारणकारयोर्मध्ये वर्णस्यैकस्य लेखनस्थानमुत्सृष्टम् । कचित् प्राणकेति पाठः । श्रीम. ' यः परं 'एवं त्वां करिष्यामि' इति करणेनाभिभर्त्सयेदकरणे, यस्तस्य करणे दण्डः ततोऽर्धदण्डं दद्यात् । अशक्तः कोपं मदं मोहं वाऽपदिशेत्, द्वादशपणं दद्यात् । (१) कौ. ३।१८.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy