________________
सुवर्णस्य क्षयो नास्ति रजते द्विपलं शतम् । शतमष्टपलं ज्ञेयं क्षयस्तु त्रपुसीसयोः ॥ ताम्रे पञ्चपलं विद्याद्विकारा ये च तन्मयाः । तद्धातूनामनेकत्वादयसोऽनियमः क्षये ॥ (१) क्रियाविधौ घटनकर्मणि, लोहानां धातूनां, सुवर्णशब्दोऽत्र शुद्धपर: अन्यादृशे तत्रापि क्षयात् । रजते द्विपलं शतं, पलशते ध्मायमाने पलद्वयं क्षयो भवति, एवमुत्तरत्रापि । तन्मयास्ताम्रमयाः कांस्यादयः, तद्धातूनामयोहेतुभूतानां पाषाणमृत्तिकादीनामनेकत्वाद्वाहुल्यादनियमः क्षये न नियमः कर्तुं शक्यते, अयः शब्दोऽपि शुद्धायोव्यतिरिक्तायः परः । शुद्धे तु नियमोऽग्रत एव उक्तः । उक्तक्षयादप्यधिकक्षये सुवर्णकारादयो दण्ड्याः, तद्दाप्याश्वेति परिगणनफलम् । विर. ३११
(२) लोहानामपीति । लोहानामपि न वस्त्राणामेव । सुवर्णादीनां सर्वेषां हेतुरग्निः कटकादिक्रियाविधौ । न ह्यग्निसंयोगमन्तरेणाविलीनानां कटकादयः शक्याः कर्तुम् । ततोऽग्निसंगमात् संस्क्रियमाणानां यः क्षयो दृष्टः स उच्यते क्रमेण ।
सुवर्णस्येत्यादि । सुवर्ण न क्षीयते । रजतं पलशते द्वे पले क्षीयते । पात्रादिकरणे त्रपुसीसयोः क्षयः शतेऽष्टौ पलानि । शते पञ्चपलं ताम्रे क्षयः । ताम्रविकारेषु सर्वेष्वेवम् । अयसो लोहस्य न क्षयनियमः तन्निमित्तानां येभ्यो लोहमुत्पद्यते तेषामनेकत्वात् कुतश्चिदुत्पन्नस्य कश्चित् क्षय इत्यनियमः ।
नाभा १०।१०-१२ (पृ. ११२-३ ) (निक्रिया विधौ ); व्यक. ११३; विर. ३११; व्यनि. ५१३ झि: (झि ) षां दृ ( पामि ); नृप्र. १८४ झि: (झि ) क्षय...... णानां ( संक्षयः स्तूयमानानां ); समु. ९० नामपि ( नां चैव ) झि: (झि ) षां दृ ( षामि ).
(१) नासं. १०।११ ते ( तं ) यस्तु ( यः स्यात् ); नास्मृ. १२।११ रज ( राज ); व्यक. ११३ र्णस्य (र्णेषु ) रज ( राज ); विर. ३११ र्णस्य ( र्णे तु ); व्यनि. ५१३ शतमष्ट ( शते त्वष्ट ) यस्तु ( यं तु ); नृप्र. १८४ यस्तु ( यः स्यात् ); समु. ९० लं शतम् (लं शते ) शेषं व्यनिवत् . .. (२) नासं. १०/१२ तद्धा (तद्धे); नास्मृ. १२।१२ दय ( दाय); व्यक. ११३; विर. ३११ विद्या ( दद्या) च (तु);
१७४७
तान्तवस्य च संस्कारे क्षयवृद्धी उदाहृते । तत्र कार्पासिकोर्णानां वृद्धिर्दशपला शते ॥ तन्तुविकारस्य वस्त्रकम्बलादेः संस्कारे कार्पासोर्णसूत्रयोः दशभिः पलैः कृतमेकादशपलं भवति । एवं शतपलस्य दशोत्तरं शतं भवति । तन्तुविकाराणामेषा वृद्धिरुक्ता । नाभा १०।१३ (पृ. ११३ ) स्थूलसूत्रवतामेषां मध्यानां पञ्चकं शतम् । त्रिपलं तु सुसूक्ष्माणामतः क्षय उदाहृतः ॥ स्थूलसूत्रपटादीनामेषा वृद्धिरुक्ता — दशपलं शते । मध्यानां शते पञ्चपला वृद्धि: । सूक्ष्माणां शते त्रीणि पलानि सत्रिभागानि । एतेनान्तरालावस्थानामनुपातेन कर्तव्यो विभागः । क्षयमुदाहृतं वक्ष्यामः ।
नाभा. १०।१४ (पृ. ११३ ) त्रिंशांशो रोमबद्धस्य क्षयः कर्मकृतस्य च । कौशेयवल्कलानां तु नैव वृद्धिर्न च क्षयः ॥ (१) उक्तादधिकक्षये शिल्पी दण्ड्यः । अप. २।१८० (२) रोमबद्ध: कम्बलादिः । कर्मकृतः कृतकर्मनिष्पन्न एव कृतचित्रादिः । विर. ३१३
3
व्यनि. ५१३ ऽनियमः (नियम); नृप्र. १८४ विद्यात् (ज्ञेया [ये ] ); समु. ९० याः (लाः).
(१) नासं. १०।१३ तत्र ( यत्र ) ला ( लं ); नास्मृ. १२।१३ तत्र (सूत्र) ला शते (लं शतम् ); अप. २।१८० च (तु); व्यक. ११३ च (तु); विर. ३१२; नृप्र. १८४-५ वस्य च (वानां तु) द्धी उदाहृते ( द्विरुदाहृता) तत्र ( सू [त] त्र) नां (नि) पला शते (पलं श [ स्मृ] तम् ).
(२) नासं. १०।१४ षां (षा) शतम् (शते) मतः (मन्त:); नास्मृ. १२।१४ तामे (ब्रां ते) सुसू (ससू) मतः ... ...हृतः (मेषा वृद्धिरुदाहृता ); विश्व. २।१८३ चतुर्थपादं विना; अप. २।१८० शतम् (शते ) लं (ला); व्यक. ११२; विर. ३१३ कं शतम् (विंशतिः) ; नृप्र. १८४ सूत्र (स्तन्तु) पलं (शतं).
(३) मासं. १०/१५ बद्ध (विद्ध); नास्मृ. १२/१५ स्थ (स्तु) नै (सै); अप. २।१८० नां तु ( दीनां ); व्यक. ११३ स्य च (स्य तु) शेषं अपवत्; विर. ३१३ पू.; व्यनि. ५१४ बद्ध (बन्ध) कर्म (चर्म) नां तु (दीनां); नृप्र. १८५ तु (च).