________________
व्यवहारकाण्डम्
१७४४
बहि: कंचन ग्रामं प्रति यायात्तदा स एव ग्रामो दद्यात् । यदा तु क्रोशमात्रव्यवस्थितानामनेकेषां ग्रामाणां मध्ये चौर्य भवति, तदा तुल्याध्वानः पञ्च ग्रामाः समाहृता मोषं दद्युः । यदा पुनर्दश ग्रामा मोषस्थानात्तुल्या न्तराला भवन्ति तदा दशाऽपि समाहृता हृतं दद्युः ।
अप.
(४) यदि पदं वा गच्छति, यदि तु पदमेव गच्छति, तदा तत्स्वामिभ्य एव यदा तु बहि: सीमायां चौरोद्धर्ता न कृतः, समन्ततश्च तस्यां वधश्चोरण वा कृतं, तदा तत्संनिहितग्रामे समाधेयं तत्, तत्र पञ्चत्वदशत्वयो: प्रायिकतयाऽनुवादः । विर. ३४४
(५) मिताटीका - विकल्पवचनं तु यथा तत्प्रत्यासत्तीति । अपहृतभूप्रदेशाद्ये ग्रामाः संनिहिता त एव दर्न पुनः पञ्चग्राम्येव दशग्राम्येवेत्येवं नियम इति । नियमनिवृत्त्यर्थं अथवेति विकल्पवचनमित्यर्थः । सुबो
स्तेयदोषप्रतिप्रसवः
1
बुभुक्षितस्त्र्यहं स्थित्वा धान्यमब्राह्मणाद्धरेत् । प्रतिगृह्य तदाख्येयमभियुक्तेन धर्मतः ॥ (१) दुस्तरत्वादेव चापदाम् - 'बुभुक्षितस्त्र्यहं स्थित्वा धनमब्राह्मणाद्धरेत् । प्रतिगृह्य तदाख्येयमभियुक्तेन धर्मतः ॥' स्वरूपपरिमाणाद्यविप्रतिपत्त्येत्यर्थः । विश्व ३४३ (२) यदा कृष्यादीनामपि जीवनहेतूनामसंभवस्तदा कथं जीवनमित्यत आह— बुभुक्षित इति । धान्याभावेन त्रिरात्रं बुभुक्षितोऽनन् स्थित्वा अब्राह्मणाच्छूद्रात्तदभावे वैश्यात् तदभावे क्षत्रियाद्वा etaकर्मण एकreपर्याप्तं धान्यमाहरेत् । यथाह मनुः'तथैव सप्तमे भक्ते भक्तानि षडनश्नता । अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥ इति (मस्मृ. ११।१६) । तथा च प्रतिग्रहोत्तरकालं यदपहृतं तद्धर्मतो यथावृत्तमाख्येयम्, यदि नाष्टिकेन स्वामिना त्वयेदं किं नामापहृतमित्यभियुज्यते । यथाह मनुः – 'खलात्क्षेत्रादगाराद्वा यतो वाऽप्युपलभ्यते । आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति ॥' इति (मस्मृ. ११।१७ ) । मिता.
(१) यास्मृ. ३\४३; विश्व. ३।४३ धान्य ( धन ); मिता; अप. ३।४२ तदा ( तथा ); वीमि.
(३) बुभुक्षितोऽनस्त्र्यहं त्रिरात्रं यावदास्थाय ब्राह्मणव्यतिरिक्तस्य स्वामिनो धान्यं हरेच्चोरयेत्तच्च धान्यं प्रतिगृह्योपादाय, किमिति त्वयैतदस्मदीयं धान्यं गृहीतमित्याक्षिप्तेन धर्मतस्तथ्यमेव तस्य कथनीयम् । मया त्रिरात्रमभुञ्जानेन स्थितवता प्राणधारणार्थं भवदीयं धान्यमपहृतमिति । X अप.
पुष्पे शाकोदके काष्ठे तथा मूलफले तृणे । अदत्तादानमेतेषामस्तेयं तु यमोऽब्रवीत् ॥ तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरन् द्विजः । गोब्राह्मणार्थ गृह्णन् वै न स पापेन लिप्यते ॥
नारदः स्तेयलक्षणं स्तेयप्रकाराश्च
सहसा क्रियते कर्म यत्किचिद् बलदर्पितैः । तत् साहसमिति प्रोक्तं सहो बलमिहोच्यते * ।। तस्यैव भेदः स्तेयं स्याद्विशेषस्तत्र तूच्यते । आधिः साहसमाक्रम्य स्तेयमाधिश्छलेन तु ॥ तदपि त्रिविधं प्रोक्तं द्रव्यापेक्षं मनीषिभिः । क्षुद्रमध्योत्तमानां तु द्रव्याणामपकर्षणात् ॥ (१) अपकर्षणमपहरणम् । दवि. १४० (२) तदपि स्तेयं द्रव्यापेक्षं त्रिविधं ऊनमध्यमोतमम् । क्षुद्रद्रव्यापकर्षणादल्पं, मध्यमद्रव्यापकर्षणान्मध्यमं, उत्तमद्रव्यापकर्षणादुत्तमम् ।
नाभा. १५/१२ (पृ. १६१ )
x वीमि अपवत् ।
** व्याख्यासंग्रहः स्थलादिनिर्देशश्च साहस प्रकरणे (पृ. १६४१ ) द्रष्टव्यः ।
(१) व्यनि. ५१५; समु. १५२ पुष्पे ( पुष्प ) नारदः . (२) व्यनि. ५१५; समु. १५२ हरन् ( हरेत् ) स्मृत्य -
+
न्तरम्.
(३) नासं. १५।१२ नीषि (हर्षि ); नास्मृ. १७/१३; व्यक. १०९; स्मृच. ८ प्रोक्तं ( शेयं) कर्षणात् ( हारत: ); विर. २८८-९; पमा. ४३६ प्रोक्तं (ज्ञेयं ) उत्तरार्धे ( क्षुद्रमध्यममुख्यानां द्रव्याणामपहारतः ); रत्न. १२३; व्यनि. - ५०२ उत्त; दवि. १४० द्रव्या ( सर्वा) तु (च ); व्यप्र. : ३८६ प्रोक्तं ( शेयं ); व्यउ १२३ व्यप्रवत्; विता. ७७७ त्रि ( द्वि ) शेषं व्यप्रवृत्; समु. १४८ स्मृचवत् .