________________
pष्टस्तेयम्
प्रतिषेधोऽयम् ।
मेधा
(२) शुल्कमोषणायोत्पथेन गच्छति । अकाले रात्र्यादौ वा क्रयविक्रयं करोति । शुल्कखण्डनार्थ विक्रेयद्रव्यस्याल्पां संख्यां वक्ति । राजदेयमपलंपितमष्टगुण दण्डरूपतया दाप्यः ।
EL
ममु.
प्रकाशतरकरप्रकरणे प्रसङ्गात् अर्धमानादिव्यवस्थाविधिः
आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ । विचार्य सर्वपण्यानां कारयेत्क्रयविक्रयौ |
(१) आपणभूमौ ये विक्रेतारस्ते न स्वेच्छया मूल्यं कर्तुं लभेरन् नापि राजा क्रींणीयात् स्वरुचिकृतेन -मूल्येन । कथं तहींदमिदं निरूप्य, आगमं, किं प्रत्यागच्छति देशान्तरादुत न, तथेयतो दूरादागच्छति । एवं निर्गमस्थाने, किं संप्रत्येव विक्रीयत उत तिष्ठति । संप्रति निष्क्रामतो द्रव्यस्य स्वल्पोऽपि लाभो महाफलः तदुत्थितेन मुल्येन द्रव्यान्तराविषयेण पुनर्लाभो स्थानात् । वृद्धिक्षयौ, कियत्यस्य वृद्धिस्तिष्ठति कीदृशो वां क्षय इति एतत्सर्वे परीक्ष्य स्वदेशे क्रयविक्रयौ कारयेत् । यथा न वणिजां पीडा भवति नापि क्रेतॄणां, तथाऽर्धे व्यवस्थापयेत् । मेधा.
(२) आगममेतावता व्ययेनागमनमत्रेति । एवं . निर्गमश्चकारात् स्थानमेतदवशिष्टं तिष्ठतीति । वृद्धिमेतावदूत इति । क्षयमानीयमानद्रव्यस्यैवापचय इतस्ततः पातेन । मवि.
(३) आगमं देशान्तरीयस्य विक्रय्यस्य दूरदुर्गमासन्नसुगमदेशादेशवर्तिन आगमनम् । निर्गमं निर्गमनं स्वदेशीयपण्यस्य तादृशदेशे गमनम् । स्थानं चिरमचिरं वा कालमेतस्मिन् क्रीते इयान् भक्तादिव्ययो वृत्त इत्यवस्थानम् । तथा वृद्धिक्षयौ एतावान् लाभ उपक्षयो या भवति इति विचार्य परामृष्य यथा क्रयकर्तॄणामनुचिते लाभहानी न भवतः, तथा राजा क्रयविक्रयौ कारयेत् । विर. ३०१-२
१७०७
: (४) शस्यपदमुपलक्षणमाद्यर्थं वा, बहुवचनं कडारा इतियत् । तेन पञ्चविधपण्यपरिग्रहः । दवि. ९८ पचरात्रे पञ्चरात्रे पक्षे पक्षेऽथवा गते । कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः ॥ (१) आगमनिर्गमनादेर्द्रव्यस्यानित्यत्वादुपचयापचिया वर्धस्यानेकरूपौ । ततोऽर्घसंस्थापनं पञ्चरात्रे पञ्चरात्रे प्रत्यक्षीकार्य, न सकृत्कृतं मन्तव्यं, नापि वणिजो विश्वसितव्याः । किं तर्हि, स्वयं प्रतिजागरणीयम् । यद्रव्यं चिरेण निष्क्रामति तत्र पक्षेऽर्घगवेषणमन्यत्र पाञ्चरात्रिकम् ।
(१) मस्मृ. ८४०१ [ विचार्य (विज्ञाय ) Noted by Jha ]; अप. २।२५१ निर्गमं ( निगमं ) सर्व (सर्व ); व्यक. १११; विर. ३०१ पण्या ( शस्या ); दवि. ९८ विरवत्; बाल. २।२५३; समु. ९०.
मेधा.
ममु.
(२) आगमनिर्गमोपाययोगादेः पण्यानामनियतत्वादस्थिरार्घादीनां पञ्चरात्रे पञ्चरात्रे गते, स्थिरप्रायार्घाणां पक्षे पक्षे गते वणिजामर्घविदां प्रत्यक्षं नृपतिराप्तपुरुषै: व्यवस्थां कुर्यात् । तुलामानं प्रतीमानं सर्वं च स्यात्सुलक्षितम् । षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत् ॥ (१) तुला प्रसिद्धी, मानं प्रस्थो द्रोग इत्यादि । प्रतीमानं सुवर्णादीनां परिच्छेदार्थे यत्क्रियते, सेव तत्सुंलक्षितं राजचिह्वैरङ्कितं कार्य, स्वयं प्रत्यक्षेण परिच्छिद्य स्वमुद्रया । परीक्षयेत् षट्सु षट्सु मासेषु पुनः परीक्षां कारयेदाप्तैरधिकारिभिः यथा न विचालयन्ति केचित् । * मेघा.
* गोरा., ममु., मच., भाच. मेधावत् ।
(१) मस्मृ. ८|४०२; मिता. २२५१ पक्षेऽथवा ( माते तथा); अप. २।२५१ पूर्वार्धे ( पञ्चरात्रे सप्तरात्रे पक्षे मासे तथा गते ); व्यक. १११; विर. २०१; पमा. ४६१; दवि. ९८; नृप्र. २६९ पक्षेऽथ ( मासेऽथ ) चैषां (चैत्र ); चीमि.
२५१ मितावत् ; विता. ७७३ मधे ( मर्ध्य ) शेषं नितावत् ; राकी. ४९३ मितावत्; समु. ९१ अपवत् .
(२) मस्मृ. ८ ४०३ [ सर्व च स्यात्सुलक्षितम् ( स तु स्यात्सुलक्षितम्, सर्वं तत्स्यात्सुलक्षितम्, सर्व स्यात्सुपरीक्षितम्, सर्वतः स्यात्सुलक्षितम् ) Noted by Jha ]; अप. २।२४४ च स्यात्सुल ( तत्स्यात्सुर ); व्यक. १११ अनवत् ; मवि. च स्यात्सुल ( पार्थिवल ); विर. ३०१; दवि. ९७६ मच. च स्यात्सुल ( तत्स्यात्स्वल); बाल. २।२५१ सुल ( स्वल ); समु. ९१ मविवत्.
१द्धमा. २ सर्वतोभागे त.