SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ इति किम् ? ये अभिचारकामा मन्त्रसिद्धये तपस्तप्यन्ते ते अकरा मा भूवन्निति । श्यम् उ. शूद्रश्च पादावनेक्ता । यस्त्रैवर्णिकानां पादावनेक्ता स शूद्रोऽप्यकरः । अन्धमूकबधिररोगाविष्टाश्च । एतेऽप्यकराः यावदान्ध्यादि । ये व्यर्था द्रव्यपरिग्रहैः । ये च परिव्राजकादयः द्रव्यपरिग्रहैर्व्यर्था निष्प्रयोजनाः शास्त्रतो येषां द्रव्यपरिग्रहः प्रतिषिद्धः तेऽप्यकराः । तथा च वसिष्ठ: - 'अकरः श्रोत्रियो राजा पुमाननाथः प्रव्रजितो बालवृद्धतरुण प्रशान्ताः' इति । उ. उ. उ. बौधायनः स्तेयमहापातकदण्डविधिः । दण्ड्योत्सर्गे राज्ञो दोषः । स्तनः प्रकीर्य केशान् सैध्रकं मुसलमादाय स्कन्धेन राजानं गच्छेदनेन मां जहीति तेनैनं हन्यात् । वधे मोक्षो भवति । (१) आध. २।२६।१५; हिध. २।१९. (२) आघ. २।२६ । १६; हिध. २।१९. (३) आघ. २।२६।१७; हिध. २/ १९. (४) बौध २।१।१७. (५) बौध. २।१।१८-२०. ब्राह्मणस्वर्ण हरति बलेन वञ्चनया चौर्येण वा यो ब्राह्मणः स स्तेन इति गीयते । तस्यैतत्प्रायश्चित्तम्प्रकीर्य शानित्यादि । सैध्रको दृढदारुनिर्मितः । सैभ्रकं मुसलं स्कन्धेनादाय राजानं गच्छेदिति संबन्धः । बौवि. (पृ.११०) अथाप्युदाहरन्ति-स्कन्धेनादाय मुसलं स्तेनो राजानमन्वियात् । अनेन शाधि मां राजन् क्षत्त्रधर्ममनुस्मरन् ॥ शासने वा विसर्गे वा स्तेनो मुच्येत किल्बिषात् । अशासनात्तु तद्राजा स्तेनादाप्नोति किल्बिषमिति ॥ अथेदानीं स्तेनशासनमपि राज्ञ आवश्यकमित्येतत्प्रदर्शयितुं तदशासने दोषमाह-- अथाऽपीति । शासनं वधः । विसर्गो मोक्षः । किल्विषं पापम् । बौवि. (पृ. ११०) १६६७ शुल्कस्थापना सामुद्रः शुल्कः । वरं रूपमुद्धृत्य दशपणं शतम् । अन्येषामपि सारानुरूप्येणानुपहत्य धर्म प्रकल्पयेत् । (१) सामुद्र: समुद्रागतपण्यगोचरः शुल्कः, तत्र पण्येषु वरं रूपं मुक्ताफलादि उद्धृत्य गृहीत्वा शतपणमूल्ये दशपणं शुल्कं गृह्णीयात् । अन्येषामपि लाभभूयस्त्वप्रयोजकदेशान्तरागतानां सारानुरूपेण श्रेष्ठं वस्तू दृत्य गृहीत्वा धर्म्य धर्मादनपेतं शुल्कं प्रकल्पयेत् गृह्णीयादित्यर्थः । अनुपहत्येत्यनेनैव वणिजो द्रव्योपघातो न कार्य इत्युक्तम् । हलायुधस्तु उपहत्येति पठित्वा गृहीत्वेति व्याख्यातवान्, फलतो न विशेषः । विर. ३०५ (२) ' षड्भागभृतो राजा (बौध. १११८/१) इत्युक्तम् । तस्य क्वचिदपवादमाह -- सामुद्र इति । राज्ञो भवतीति शेषः । द्वीपान्तरादाहृतं सामुद्रं वस्तु तत्संबन्धी सामुद्रः शुल्कः पणद्रव्यम् । तस्मिन् भागः कियानित्यत आह-- वरमिति । गृह्णीयाद्राजेति शेषः । वरमुत्कृष्टद्रव्यरूपं रत्नादिद्रव्यं स्वामिने प्रदाय शेषं शतधा विभज्य दशपणं गृह्णीयात् । अनेन सामुद्रे दशभाग: शुल्क इत्युक्तं भवति । अन्येषामपीति । असामुद्राणामपि द्रव्याणां सारफल्गुत्वापेक्षया वरं रूपमनुपहत्यैव धर्म प्रकल्पयेदात्मार्थम् । तत्र सारफल्गुविभागो गौतमेनोक्तः - 'विंशतिभाग: शुल्कः पये । मूलफलपुष्पौषधमधुमांसतृणेन्धनानां पाष्ठयम्' इति । षष्ठतमं षाष्ठ्यम् । बौवि. (पृ.९१) वसिष्ठः स्तेयदुष्टलक्षणानि स्तेनोऽनुप्रवेशान्न दुष्यति शस्त्रधारी सहोढो व्रणसंपन्नश्च व्यपदिष्टस्त्वेकेषाम् । (१) बौध. १।१०।१५-६६ अप. २।२६१ सामुद्रः ( सामुद्र) रूप्येणा ( सारेणा ); व्यक. १११ रूपये (रूपे ) धर्मं ( धर्मे ); विर. ३०५ दशपणं शतम् ( शतपणमूल्ये दशपणं ) रूपये (रूपे ) धर्म (धर्म्य); दवि. ९४ पणं ( पलं ) धर्म ( धमें ). , (२) वस्मृ. १९।२६ ( क ) ष्यति ( ष्यते ) न्नश्च (नो), (ख) ( रतेनाभिशस्तदुष्टशस्त्रधारिसहोढव्रणसंपन्नव्यपदेष्टेष्वेकेषाम् ); व्यक. ११६; मभा. १२।४८ ध्यति ( ष्यते ); विर. ३३३ स्त्वे ( ).
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy