________________
स्तेयम्
१६६१
दशमं वाऽष्टमं वा, षष्ठं वा, अधममध्यमोत्तम भूभागक्रमेण व्यवस्थितविकल्पो द्रष्टव्यः । पशुहिरण्ययोरप्येके पञ्चाशद्भागः ।
मभा.
* (१) ये पशुभिर्जीवन्ति ये वा हिरण्यप्रयोक्तारो वार्धुषिकास्तैः पञ्चाशत्तमो भागो राज्ञे देय इत्येके । तद्यथा यस्य पञ्चाशत्पशवः सन्ति स प्रतिसंवत्सरमेकं पशुं राज्ञे दद्यात् । यस्य वा पञ्चाशन्निष्कैर्वृद्धिप्रयोगः स प्रतिसंवत्सरमेकैकं निष्कं राज्ञे बलिरूपेण दद्यादिति ।
गौमि.
धर्मतन्त्रपीडायां तस्य करणेऽदोषः । (१) यस्माद्भर्तव्यस्तस्मादस्य धर्मतन्त्रपीडायां -- धर्म - शब्देनाग्निहोत्रादय उच्यन्ते; तन्त्रशब्देन विवाहः, पीडाशब्देनात्मपीडा 'सप्तमीं चाभुक्त्वा' इत्यनेनोक्ता । धर्मविच्छेदे विवाहसिद्धये आत्मपीडायां चेत्यर्थः । तस्य चौर्य करणे अदोषः दण्डो नास्तीत्यर्थः । राज्ञ उपेक्षया धर्मतन्त्रपीडायां सत्यां चौर्य कृत्वा स्वदोषादागते चौर्य ब्राह्मणस्य दण्डपातनं न युक्तमित्यभिप्रायः ।
-
केचिद्व्याचक्षते--श्रुतशीलसंपन्नश्चेत् भर्तव्यत्वादाचक्षीत । अश्रोत्रियोऽप्याचक्षीत । यस्मात्तस्मादश्रोत्रियस्यापि धर्मतन्त्रपीडायां दण्डो नास्ति इति । अपरे व्याचक्षते • बिभृयाच्छ्रोत्रियानिति योऽसौ भर्तव्यः सोऽस्मिन्नपराधेऽपि भर्तव्य एव । हिशब्द एवशब्दार्थे, तदनुरूपोऽर्थः अस्यापि दातव्य इत्यर्थः । अश्रोत्रियमपि न दण्डयेत् यतस्तस्यापि तस्मिन्नपराधे दण्डो नास्तीति। कुतः? धर्मतन्त्रपीडायामित्यस्य सूत्रस्याश्रोत्रियार्थत्वादारम्भस्येति । मभा.
(२) यदि पशुबन्धादौ धर्मे प्रवृत्तस्य तदङ्गं पश्वादि केनचित्पीडितं भवति हतमपहृतं वा तस्मिन्निवेदिते तदैव तस्य प्रतिविधानं कार्य राज्ञा । अकरणे दोषो भवति । गौमि.
प्रकाशचौर्यप्रसङ्गात् करशुल्कस्थापनाविधिः राज्ञे बलिदानं कर्षकैर्दशममष्टमं षष्ठं वा । (१) कर्षकैः क्षेत्रे यल्लब्धं तस्य दशमभागोऽष्टमः षष्ठो वांऽशो राज्ञो बलिदानं कररूपेण देयः । अस्य राज्ञः कर्षकै: क्षेत्रे यल्लब्धं तद्रक्षणनिमित्ता वृत्तिरेषा । कृष्टाया भूमेरतिभोगमध्यमभोगाल्पभोगविषयोऽयं व्यवस्थितो विकल्प: । अतिभोगे दशमांशो मध्यमभोगेऽष्टमांशोऽल्पभोगे पष्ठांश इति ।
गौमि.
(२) अधुना रक्षणनिमित्तामस्य वृत्तिमाह- राज्ञे बलिदानमिति । नियुक्ताय देयमिति राजग्रहणम् । प्रतिसंवत्सरं देयमिति बलिग्रहणम् । दानं कर्तव्यमिति शेषः । कर्पकैः यावन्तः कृषिजीविनः, न तु वैश्येनैव
(१) गांध. १८/३६; मभा ; गौभि. १८/३२ तरय करणे दोषः ( तस्याकरणे दोषः ).
(२) गौध. १०।२३ मभा ; गोमि. १०।२४.
(२) पशुपालनेनोपजीवतः सकाशात्पशूनां पञ्चाशद्भागं गृह्णीयात् । हिरण्यं वार्धुषिकसकाशात् । 'समा धनमुद्धृत्य महार्घं यः प्रयच्छति । स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥' इति वार्धुषिकस्य प्रतिषेधादेवास्याभावः प्राप्नोतीति चेत् – नैष दोष:, 'कामं परिलुप्तकृत्याय पापीयसे दद्याताम्' इति वसिष्ठेन प्रका- . रान्तरेणाभ्यनुज्ञानात् । एकेग्रहणान्न तु गौतमः, तत्र येषामप्रतिप्रसवः तेषु न गृह्णीयात् । येषां प्रतिषेधाभावादेव वार्धुषिकत्वं स्यात् तेषु गृह्णीयादित्येवं द्रष्टव्यम् ।
मभा.
'विंशतिभागः शुल्कः पण्ये । मूलफलपुष्पौषधमधुमांसतृणेन्धनानां षाष्टः । तद्रक्षणधर्मित्वात् । तेषु तु नित्ययुक्तः स्यात् ।
(१) विंशतीति । यद्वणिग्भिर्विक्रीयते तत्पण्यं तत्र विंशतितमो भागो राज्ञे देयस्तस्यैव दीयमानस्य शुल्क
(१) गौध. १०।२४; मभा. ; गौमि. १०।२५.
(२) गौध. १०।२५-८; अप. २ २६१ भागः शुल्कः ( भागाः शुल्कं ) पाष्टः (षष्ठः ) ( तु० ); व्यक. १११ षाष्ट: ( पाष्ठम् ) ( तु० ) नित्यं ( नित्यं ); मभा षाष्ट: ( घाष्ट्य : ); गोमि. १०।२६ ९ पाष्टः (षष्ठ: ); उ. २।२६।९ षध (षधि ) पाट: ( पाष्टिक्यम्) (तद्रक्षस्यात् ० ); विर. ३०४ ( फल० ) पाष्ट: ( पाष्टं ) ( तु० ); विधि. १२९ ( फल० ) धमधुमांस (पधिमांसमधु ) षाष्ट: ( तु षष्ठः ) ( तद्रक्ष...... स्यात् ० ); दवि. ९४ ( विंशति... पण्ये० ) ( फल० ) पाट: (पष्टिः ) तद्रक्षण ( क्षण ) ( तु० ); सेतु. २९५ ( मूलफल० ) पधमधुमांस ( पविमांसमधु ) पाष्टः ( पष्ठ: ) ( तद्रक्ष ....... स्यात् ० ).