________________
सेनाखासखेल ; समशेरबहादुर; फर्जद-इ-खास-इ-दौलत-इ-इंग्लिशिया; जी. सी. एस्. आय. ; जी. सी.
आय.ई; एल.एल.डी. इत्यादिगुणलक्षणोपाधिधारिणां वटोदरराज्यपतीनां पतितपावनानां परमोदाराणां
राज्यतन्त्रनिपुणभूभृदग्रणीनां सयाजीराव महाराजानां प्रजायाः पालन-विनयाधानादिश्रेयस्करकर्मसु नित्याविरतप्रवृत्ति, प्राचीनार्वाचीन विविधविद्या-कला-शिल्प-प्रस्थानभेदानां आविष्करण-संरक्षणसंशोधन-संस्करण-प्रकाशनाध्ययनाध्यापनादिप्रयत्ने भारतीयविद्वत्समाज स्यमार्गदर्शकत्वं, विशेषतोऽस्मदङ्गीकृते भारतीयसंस्कृतेरितिहासस्य विशेषसाधनीभूते धर्मशास्त्रसकलनात्मक-धर्मकोशकार्ये परमप्रीतिं चावधार्य तत्करसरोजयोः समर्प्यते इदं धर्मकोशस्य व्यवहारकाण्डम्
तत्रभवतां विधेयाः