________________
१०
अभिधानचिन्तामणौ
अतिशायने मतुः ॥१०॥ जगतां प्रभुः जगत्प्रभुः ॥११॥ तीर्यते संसारसमुद्रोऽनेनेति तीर्थे प्रवचनाधारश्चतुर्विधः सङ्घः प्रथमगणधरो वा । यदाहु:-"तित्थं भन्ते तित्थं तित्थयरे तित्थं गोअमा अरिहा तावनियमा तित्थंकरे तित्थं पुण चाउवण्णे समणसंधे पढमगणहरे वा" तत्करोति तीर्थङ्करः, तीर्थकरः "हेतुतच्छीलानुकूले-"॥५।१११०३॥ इति टे “ नवाखित्कृदन्ते-"॥३।२।११७॥ इत्यत्र योगविभागव्याख्यानाद्वा मोऽन्तः ॥ १२ ॥ १३ ॥ रागादिजेतारो जिनाः केवलिनः तेषामीश्वरो जिनेश्वरः ॥ १४ ॥ ॥ २४ ॥ स्यादित्यव्ययं अनेकान्तवाचकं ततः स्यादित्यनेकान्तं वदति इत्येवं. शीलः स्याद्वादी स्याद्वादोऽस्यास्ति वा स्याद्वादी यौगिकत्वादनेकान्तवादीत्यपि ॥ १५ ॥ भयं इहपरलोकादानाकस्मादाजीवमरणाश्लाघाभेदेन सप्तधा; एतत् प्रतिपक्षतो ऽभयं विशिष्टमात्मनः स्वास्थ्यं निःश्रेयसधर्मनिबन्धनभूमिकाभूतं तत् गुणप्रकर्षादचिन्त्यशक्तियुक्तत्वात् सर्वथा परार्थकारित्वात् ददाति इति अभयदः ॥ १६ ॥ सर्वेभ्य: प्राणिभ्यो हितः सार्वः सर्वीय इत्यपि “सर्वाण्णो वा" ॥४१॥४३॥ इति वा णः ॥ १७ ॥ सर्वे जानाति इति सर्वज्ञः ॥ १८ ॥ सर्व पश्यतीत्येवंशील: सर्वदर्शी ॥ १९ ॥ सर्वथावरणविलये चेतनस्वरूपाविर्भावः केवलं तदस्यास्ति केवली ॥ २० ॥ देवानामप्यधिदेवः देवाधिदेवः ॥ २१ ॥ बोधिः जिनप्रणीतधर्मप्राप्तिः तां ददाति बोधिदः ॥ २२ ॥ पुरुषाणामुत्तमः सहज़तथाभव्यत्वादिभावतः श्रेष्ठः पुरुषोत्तमः ॥ २३ ॥ वीतो गतो रागो ऽस्माद्वीतरागः ॥ २४ ॥ हितोपदेशकत्वात् आप्त इव आप्त: ॥ २५ ॥ २५ ॥
एतस्यामवसर्पिण्यामृषभोऽजितशंभवौ । अभिनन्दनः सुमतिस्ततः पद्मप्रभाभिधः ॥२६॥ सुपार्श्वश्चन्द्रप्रभश्च सुविधिश्वाथ शीतलः । श्रेयांसो वासुपूज्यश्च विमलोऽनन्ततीर्थकृत् ॥२७॥ धर्मः शान्तिः कुन्थुररो मल्लिश्च मुनिसुव्रतः ।
नमिर्नेमिः पार्थो वीरश्चतुर्विशतिरहताम् ॥२८॥ एतस्यामिति वर्तमानायां अवसर्पिण्यां दशसागरोपमकोटीकोटिप्रमाणायां कालविशेषे, ऋषति गच्छति परमपदमिति "ऋषिवृषिलुसिभ्यः कित्" ॥ ( उणा३३१) ॥ इत्यभे ऋषभः ; यद्वा ऊर्वोवृषभलाञ्छनमभूद्भगवतो जनन्या च चतुर्दशानां स्वप्नानामादावृषभो दृष्टस्तेन ऋषभः ॥१॥ परीषहादिभिर्न जितः इति अजित:; यद्वा गर्भस्थे अस्मिन् गते राज्ञा जननी न जितेत्यजितः ॥ २ ॥ शं सुखं भवत्यस्मिन् स्तुते शंभवः; यद्वा गर्भगतेऽप्यस्मिन्नभ्यधिक्सस्यसंभवात् संभवोऽपि ॥ ३ ॥ अभि