________________
७०६
न्यायकोशः। धिकरणकालः । यथा पचतीत्यादौ लडर्थः (ग० व्यु० ल० )। अत्र लडर्थवर्तमानत्वं चाख्यातार्थकृत्याद्यन्वयि तत्तत्कालवृत्तित्वमेव ( श०प्र० श्लो० ९७ टी० पृ० १४२ ) । शाब्दिकास्तु प्रारब्धापरिसमाप्तो भूतभविष्यद्भिन्नो वा कालो वर्तमानकालः इति वदन्ति ( वै० सा० ल० पृ० १२० ) ( काशिका० ३।२।१२३ ) । तदर्थश्च विनष्टावयवप्रागभावकत्वे सत्यनुत्पन्नध्वंसान्त्यावयवकत्वम् । अथ वा शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मत्वेनोपलक्षिततत्तत्कालत्वावच्छिन्नत्वम् ( वै० सा० द० ल० पृ० १२० )। वर्तमानसामीप्यं तु वर्तमानक्षणोत्तरकालावच्छेद्यत्वम् । तेन चैत्रः कदा गमिष्यति इति जिज्ञासायाम् एष गच्छति इत्युत्तरस्य वर्तमानक्षणोत्तरकालावच्छेद्यगतिमांश्चैत्रः इत्यर्थः इति न प्रश्नोत्तरभावासंगतिः । अथवा वर्तमानक्षणाव्यवहितप्राक्कालावच्छेद्यत्वम् । तेन चैत्रः कदा समागतः इति जिज्ञासायाम् एष आगच्छति इत्युत्तरस्य वर्तमानक्षणाव्यवहितप्राक्कालावच्छेद्यागमनवान् इत्यर्थ इति न प्रश्नोत्तर
भावासंगतिः ( श० प्र० श्लो० ९७ टी० पृ० १४४ )। लता-दीर्घयायिन्यो द्राक्षातिमुक्ताप्रभृतयः ( मिताक्षरा अ० २।२२९ )। लयः-१ विनाशः । कार्यस्य कारणे सूक्ष्मीभावेनावस्थानम् इति सांख्या . आहुः । तदुदाहृतम् आसीज्ज्ञानमथोप्यर्थ एकमेवाविकल्पितम् (सांख्य०
भाष्य० १।६२ ) इति । २ प्रलयकालः इति पौराणिका आहुः । ३ गायकास्तु नृत्यगीतवाद्यानामेकतानतारूपं साम्यं लयः इत्याहुः । ते लयभेदाश्च द्विपदी वलतिका झल्लिका छिन्नखण्डिका इत्यादयश्चत्वारिंशत्संख्याकाः संगीतदामोदरादौ द्रष्टव्याः ( वाच०)। ४ संश्लेषः इति
काव्यज्ञा वदन्ति । ५ ईश्वरः इति वेदान्तिनः संगिरन्ते । लवः-त्रुटिद्वयं लवः प्रोक्तः ( पुरु० पृ० ३१८ )। लवणः-१ ( गुणः ) रसविशेषः । अत्रोच्यते लवणः शोधनो रुच्यः पाचनः कफपित्तदः । पुंस्त्ववातहर: कायशैथिल्यमृदुताकरः॥(भावप्र०) इति । ५ सिन्धुदेशः । ३ समुद्रः । ४ लावण्ययुतः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org