SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ६२३ ७।२।२७ ) इत्यादौ । ३ द्रव्यादिषट्कम् (मु० १ पृ० १९) । तल्लक्षणं च भावत्वमेव । तच्चात्र समवाय एकार्थसमवाय एतदन्यतरसंबन्धेन सत्तावत्त्वम् ( दि. १ पदार्थनि० पृ० २०)। अत्र समवायस्य स्वरूपेण स्वसंबद्धत्वाङ्गीकारेण समवायस्य समवायेनान्यत्रावृत्तावपि समवाये नाव्याप्तिः इति ज्ञेयम् (राम० १ पृ० २० ) । अथवा समवाय सामानाधिकरण्य एतदन्यतरसंबन्धेन सत्तावत्त्वम् ( दि० १ अभावनिक पृ० ४१ )। ४ नव्यास्तु इतराविशेषणतया क्रियाबोधपरत्वम् । यथा कृष्णेन स्थीयते इत्यादौ आत्मनेपदविधायके भावकर्मणोः ( पा० सू० १।३।१३ ) इति पाणिनिसूत्रे भावपदार्थ इत्याहुः (ग० व्यु० आख्यातार्थनि० पृ० १२९)। ५ धातुवाच्या क्रिया । यथा भावप्रधानमाख्यातम् ( यास्कनिरुक्तम् ) इत्यादौ । यास्केन साध्यरूपाया भावत्वमुक्तं यथा तद्यत्रोभे भावप्रधाने भवतः पूर्वापरीभूतं भावमाख्यातेनाचष्टे व्रजति पचतीत्युपक्रमप्रभृत्यपवर्गपर्यन्तम् इत्यादि । अत्रायं भावः । शाब्दिकमते शाब्दबोधस्य धात्वर्थमुख्यविशेष्यकत्वस्वीकारेण भावस्य प्राधान्य युज्यते । नैयायिकमते तु प्रथमान्तार्थमुख्यविशेष्यकशाब्दबोधाङ्गीकारेण तन्मते भावना भावशब्दार्थः। इयमेव कृतिः । तथा च भावप्रधानमाख्यातमित्यत्र भावः प्रधानं धात्वर्थे इति विग्रहं वर्णयन्ति । ६ सिद्धावस्थापन्नो धात्वर्थो भाव इति वैयाकरणा आहुः । ७ उत्पत्त्यादिरूपषड्भावविकारयुक्तः पदार्थ इति यास्क आह । अत्रोच्यते। षड्भावविकारा भवन्तीति वार्ष्यायणिः । जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यति इति । तत्र ( १ ) जायते इति पूर्वभावस्यादिमाचष्टे नापरभावमाचष्टे न प्रतिषेधति । (२) अस्ति इत्युत्पन्नस्य सत्त्वस्यावधारणम्।(३) विपरिणमते इत्यप्रच्यवमानस्य तत्त्वाद्विकारम् । (४) वर्धते इति स्वाङ्गाभ्युच्चयम् सांयौगिकानां वार्थानाम् वर्धते विजयेनेति वा वर्धते शरीरेणेति वा। (५) अपक्षीयते इत्येतेनैव व्याख्यातः प्रतिलोमम् । (६) विनश्यति इत्यपरभावस्यादिमाचष्टे न पूर्वभावमाचष्टे न प्रतिषेधति (निरुक्त० इति । ८ धर्मादयोष्टौ भावाः इति सांख्या आहुः । धर्मादयस्तु भावैरधिवासितं लिङ्गम् (सांख्यकारि० ४० ) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy