________________
न्यायकोशः। च भाषया देशः यथा वा संभ्रमेण स्नेहः तथा ज्ञानाकारेण ज्ञेयमनुमेयम् इति । तथा च बाह्यार्थसद्भावे प्रयोगः ये यस्मिन्सत्यपि कादाचित्काः ते सर्वे तदतिरिक्तसापेक्षाः । यथा अविवक्षत्यजिगमिषति मयि वचनगमनप्रतिभासा विवक्षुजिगमिषुपुरुषान्तरसंतानसापेक्षाः । तथा च विवादाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने कदाचिदेव नीलााल्लेखनाः इति । तत्रालयविज्ञानं नामाहमास्पदं विज्ञानम् । अयमेवात्मा । नीलाघल्लेखि प्रवृत्तिविज्ञानम् । ततश्च कादाचित्कत्वनिर्वाहाय शब्दस्पर्शरूपरसगन्धविषयाः सुखादिविषयाः षडपि प्रत्ययाश्चतुरः प्रत्ययाप्रतीत्योत्पद्यन्ते । ते चत्वारः प्रत्ययाः प्रसिद्धाः आलम्बनसमनन्तरसहकार्यधिपतिरूपाः । एवम् चित्तचैत्तात्मकानां सुखादीनां चत्वारि कारणानि
द्रष्टव्यानि । एवम् चित्तचैत्तात्मकः स्कन्धः पञ्चविधः रूपविज्ञानवेदना। संज्ञासंस्कारसंज्ञकः । तदिदं सर्व दुःखम् दुःखायतनम् दुःखसाधनं च इति भावयित्वा तन्निरोधोपायं तत्त्वज्ञानं संपादयेत् । तच्च प्राचीनभावनाबलाद्भवति इति परमं रहस्यम् (सर्व० सं० पृ० ३१-४०)। सूत्रस्यान्तं रहस्यम् पृच्छतां भवन्तश्च सूत्रस्यान्तं पृष्टवन्तः सौत्रान्तिका भवन्तु इति भगवता बुद्धेन अभिधानात् सौत्रान्तिकसंज्ञा संजाता इति । ( ४ ) केचन बौद्धाः ( वैभाषिकाः ) बाह्येषु गन्धादिषु आन्तरेषु च रूपादिषु स्कन्धेषु सत्स्वपि तत्रानास्थामुत्पादययितुं सर्व शून्यम् इति प्राथमिकान माध्यमिकान् विनेयानचीकथद्भगवान् । द्वितीयांस्तु योगाचारान् विज्ञानमात्रग्रहाविष्टान् विज्ञानमेवैकं सत् इत्यचीकथत् । तृतीयान् सौत्रान्तिकान् उभयं सत्यम् इत्यास्थितान् विज्ञेयमनुमेयम् इत्यचीकथत् । सेयं विरुद्धा भगवतो भाषा इति वर्णयन्तो वैभाषिकाख्यया ख्याताः इति ( सर्व० पृ० ४३ बौद्ध० )। वैभाषिकमते प्रात्यक्षिकं वस्तु सत् आनुमानिकं त्वसत् इति ज्ञेयम्। वैभाषिका इत्थं मन्यन्ते । अर्थो द्विविधः ग्राह्यः अध्यवसेयश्च । तत्र ग्रहणं निर्विकल्पकरूपं प्रत्यक्षम् प्रमाणम् । कल्पनापोढत्वात् । अध्यवसायस्तु सविकल्पकरूपः अनुमानम् अप्रमाणम् । कल्पनाज्ञानत्वात् । अवशिष्टं सौत्रान्तिकप्रस्तावे प्रपञ्चितम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org