________________
न्यायकोशः ।
५३७
प्रतिवादः – वादिप्रयुक्तन्यायवाक्यविरुद्धन्यायवाक्यप्रयोगः । यथा अनेन चौयं कृतम् लोप्त्रग्रहणकारणात् इत्यादिवाक्ये वादिना प्रयुक्त तन्न कृतम् तद्विपरीतकारणात् इति प्रतिवादिप्रयोगः प्रतिवादः । प्रतिवादी - [क] वादिप्रयुक्तन्यायवाक्य विरुद्धन्यायवाक्यप्रयोगकर्ता । यथा पर्वते वह्निसिद्धये वादिना पर्वतो वह्निमान् धूमवत्त्वात् इत्यादिन्यायवाक्ये प्रयुक्ते तद्विरोधेन पर्वतो न वह्निमान् पाषाणमयत्वात् इत्यादि विरुद्धवाक्यं येन प्रयुज्यते सः । [ख] अर्थिप्रतिपक्षः । [ग] प्रत्यर्थी च इति व्यवहारशास्त्रज्ञा आहुः ( मिता० अ० २ श्लो० ६ ) । प्रतिविधानम् — १ कृषिशब्दे दृश्यम् । २ प्रतीकारः । ३ प्रकृतस्योप
पादनाद्यर्थमुपायावलम्बनम् ( वाच० ) ।
प्रतिश्रवणम् - १ देयत्वेनाभ्युपगमः । यथा गुरवे गां प्रतिशृणोति आशुणोतीत्यादौ धात्वर्थः । अत्र धात्वर्थे गोर्विशेष्यत्वेन तदेकदेशे च दाने गुरोरुद्देश्यत्वेन अन्वयः । तेन गुरूद्देश्यकदानकर्मत्वेन गामभ्युपगच्छति इत्येवं तत्र बोधः ( श० प्र० श्लो० ६९ टी० पृ० ८६-८७ ) । २ प्रतिशब्दः इति काव्यज्ञा आहुः ।
1
प्रतिषेधः - १ [क] प्रसज्यप्रतिषेधवदस्यार्थोनुसंधेयः ( म०प्र० ४ पृ० ४८ ) ( पर्युदासशब्दे दृश्यम् ) । [ख] निषेधः । [ग] मीमांसकास्तु मा कुरु इति निवारणम् । यथा प्राधान्यं हि विधेर्यत्र प्रतिषेधेप्रधानता ( मीमां ० का ० ) इत्यादी इत्याहुः । [घ] प्रतिषेधः स विज्ञेयो यत्रोत्तरपदेन नव् ( मी० न्या० पृ० ६२ ) । २ दूषणाभिधानम् । ३ अर्थालंकारविशेषः इत्यालंकारिका आहुः । प्रतिसंधानम् - १ ज्ञानम् । अनुसंधानमप्येवमेव व्याख्येयम् । २ अन्वेषणम् । ३ अनुचिन्तनम् । ४ नष्टद्रव्यस्योपलब्धिव्यापार : ( वा० ) । प्रतीकः - १ अवयवः ( भाग : ) । यथा प्रत्यक्षोपजीवकत्वात् ( चि० २ पृ० १ ) इति ग्रन्थस्य प्रत्यक्षविति ( दीधि० २ पृ० १ ) । इति प्रतीको दीधितिकारेण गृहीतः । अत्रायं नियमः । यत्र समासघटकस्य अच्
१ अप्रधानता इति पदच्छेदः । ६८ न्या० को ०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org