________________
न्यायकोशः। • वक्तुरिच्छा तद्विषयीभूतो योर्थः तन्निष्ठा शक्यसंबन्धरूपा लक्षणा इति। • यथा रथो गच्छतीत्यादौ तिबाख्यातस्याश्रयत्वे निरूढलक्षणा ( दि० ४ .. पृ० १७५ )। यथा वा कर्मणि कुशल इत्यादौ । अत्र कुशांलाति इति
व्युत्पत्त्या कुशलपदं दर्भादानकर्तरि यौगिकम् । विवेचकत्वसारूप्या: प्रवीणे वर्तमानमनादिवृद्धव्यवहारपरंपरानुपातित्वेनाभिधानवत्प्रयोजन
मनपेक्ष्य प्रवर्तते ( सर्व० पृ० ३७३ पात०)। [ख] लक्ष्यतावच्छेदकीभूततत्तद्रूपेण पूर्वपूर्वं प्रत्यायकत्वान्निरूढा। यथा अरुणया पिङ्गाक्ष्या एकहायन्या (गवा) सोमं क्रीणाति इत्यादावारुण्यादिप्रकारेण तदाश्रयद्रव्यानुभावकत्वादरुणादिपदस्य आरुण्ये निरूढलक्षणा ( श०. प्र० श्लो० २४ टी० पृ० ३१ ) ( लौ० भा० पृ० १७-१८)। [ग] केचित्तु ( शाब्दिकादयः ) व्याकरणकोशादिहेतुतः प्रसिद्धार्थे शक्तितुल्या लक्षणारूपा शब्दस्यार्थबोधनशक्तिः इत्याहुः (वाच०)। [५] निरूढा लक्षणाः काश्चित्सामर्थ्यादभिधानवत् (सर्व० पृ० ३७४ पात०)। निरूढिः-१ निरूढलक्षणा । २ काव्यज्ञास्तु प्रसिद्धिः । यथा चतसृष्वपि
ते विवेकिनी नृप विद्यासु निरूढिमागता ( किरात० स० २ श्लो० ४ )
इत्यादावित्याहुः। निरूपकत्वम्-१ स्वरूपसंबन्धविशेषः। यथा दण्डो घटस्य कारणम्
इत्यादी घटनिष्ठकार्यतानिरूपकत्वं दण्डनिष्ठकारणतायाम् । यथा वा भूतले घटः इत्यादी भूतलनिष्ठाया आधारताया निरूपकत्वं घटनिष्ठाघेयत्वे । यथा वा घटस्य ज्ञानम् इत्यादौ ज्ञाने घटनिष्ठविषयतानिरूपकत्वम् । एवमन्यत्रापि निरूप्यनिरूपकभावो ज्ञेयः । अत्रायं नियमः यन्निरूपितं यद्भवति तन्निरूपकं तत् इति । २ तज्ज्ञानजनकज्ञानविषयत्वम् (ग० अव० हेतु०)। यथा वृक्षाद्विभजेत इत्यादौ विभागस्य वृक्ष
निष्ठावधितानिरूपकत्वम् । ३ प्रतियोगित्वम् इति केचिदाहुः । निरूपणम्-१ ज्ञानानुकूलशब्दः । लक्षणस्वरूपप्रामाण्यादिप्रकारकज्ञाना
नुकूलव्यापारः इति फलितोर्थः ( त० प्र० ख० ४ पृ० ३ ) ( दायभा० श्रीकृष्ण )। यथा अथ शब्दो निरूप्यते (न्या० म० ४ पृ० १)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org