________________
११०
न्यायकोशः ।
३ महत्तत्त्वजन्यः पञ्चतन्मात्रादीनां कारणीभूतस्तत्त्वविशेषोहंकार इति सांख्याः । तन्मते वैकारिकतामसभेदेन द्विविधोहंकार इति बोध्यम् । बादरायणाचार्यास्तु वैकारिकतैजसतामसभेदेन त्रिविधोहंकार इति प्राहुः । अहः – १ संपूर्णादित्यमण्डलदर्शनयोग्यः कालः (वै० उ० ) । यथा अहो अहोभिर्महिमा हिमागमे ( नैषध० ) इत्यादौ । २ क्वचित् दिनरात्रिसमुदितः कालः । यथा मासैर्द्वादशभिर्वर्षं दिव्यं तदहरुच्यते ( सू० सि० ) । यथा वा विप्रः शुध्येद्दशाहेन द्वादशाहेन भूमिपः ( मनु० ५।८३ ) इत्यादौ । अहोरात्रसाध्यः एकः सोमयागो वेदे अहः शब्देनोच्यते । तादृशानामहर्विशेषाणां गणः षडहः ( पु० चि० पृ० १० ) ।
अहम् — [क] तत्कालीन स्वातत्र्योच्चारयितृचैत्रत्वादिविशिष्टः । अत्र स्वातत्र्योक्त्या च वाच्यस्त्वया मद्वचनात्स राजा इत्यादौ न मत्पदात्कवेर्बोध: ( दि० ४ पृ० १७९ ) । अत्र स्वतन्त्रोच्चारणं च वाक्यान्तरस्थक्रियाकर्मतया स्वघटितवाक्यार्थप्रत्यायनेच्छानधीनस्वोच्चारणम् (ग० शक्ति० पृ० २७ ) । [ख] त्रोच्चारण कर्तृतावच्छेदकधर्मावच्छिन्नः । यथा अहं गच्छामीत्यादावस्मदर्थः ( ग० शक्ति ० पृ० २६-२७ ) । अत्र स्वोच्चारणकर्तृतावच्छेदकावच्छिन्नविषयकत्वस्वजन्यत्व - एतदुभयसंबन्धेन अस्मत्पदप्रकारकबोधविषयकः संकेतः अस्मत्पदस्थलेभ्युपेयते ।
अहिंसाव्रतम् — न यत्प्रमादयोगेन जीवितव्यपरोपणम् । चराणां स्थावराणां च तदहिंसाव्रतं मतम् || ( सर्व० सं० पृ० ६५ आर्हत० ) अहीनः - आवृत्तसोमयागरूपो द्विरात्रत्रिरात्रादिरहर्गणः ( जै० न्या० अ०३ पा० ३ अधि० १३ ) ।
अहेतु समः - ( जातिः ) [क] त्रैकाल्यासिद्धेर्हेतोरहेतुसमः ( गौ० ५।१।१८ ) । हेतुः साधनम् । तत् साध्यात्पूर्वम् पश्चात् सह वा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org