________________
१०८२
न्यायकोशः। स्नेहस्य अनैकान्तिकः विरुद्धः इत्यादिपञ्चत्वव्यवहारः कथम् इत्याशङ्कायामुत्तरम् । उपधेयसंकरेप्युपाध्यसंकरः इति न्यायादोषगतसंख्यामादाय दुष्टहेतौ पञ्चत्वादिसंख्याव्यवहारः (दीधि० २ हेत्वा० पृ० १७८) इति । तेन यत्र कचिद्धतावेकविध एव दोषः कचिट्ठी कचित्तु त्रयः पञ्चविधा वा संभवेयुः तत्रापि तत्तव्यवहारः संगमनीयः इति । गौतमे मते हेत्वाभासः पञ्चधा सव्यभिचारः विरुद्धः प्रकरणसमः साध्यसमः कालातीतश्वेति (गौ० १।२।४ )। वृत्तिकारोपि अप्रसिद्धोनपदेशोसन् संदिग्धश्वानपदेशः (वै० ३।१।१५) इति सूत्रस्थचकारस्य बाधसत्प्रतिपक्षसमुच्चयार्थकतामुक्त्वा गौतमीयमेव मतमनुधावति (वै० उ० ३।१।१७ पृ० १६१ )। पर्यायान्तरेण हेत्वाभासः पञ्चधा असिद्धः विरुद्धः अनैकान्तिकः प्रकरणसमः कालात्ययापदिष्टश्चेति (त० भा० )। पर्यायान्तरेणापि हेत्वाभासः पञ्चधा सव्यभिचारः विरुद्धः असिद्धः सत्प्रतिपक्षितः बाधितश्चेति (न्या० म० २ पृ०२०) (त० सं०)। एवं च अनुकूलतर्काभावादयः असिद्धभेदा एव । विशेषणासिद्ध विशेष्यासिद्ध असमर्थविशेषण असमर्थविशेष्य असमर्थोभय संदिग्धासमर्थविशेषण संदिग्धासमर्थविशेष्य संदिग्धासमर्थोभय इत्यादयः सहस्रधाभेदभिन्नासिद्धप्रभेदाः स्वरूपासिद्ध अन्तर्भवन्ति (वै० उ० ३।१।१७ पृ० १५८१५९ ) ( त० भा० हेत्वा० पृ० ४५)। व्यर्थविशेषणस्तु व्याप्यत्वासिद्धे अन्तर्भवति इति न हेत्वाभासाधिक्यम् इति विज्ञेयम् । काश्यपमते (कणादमते ) तु हेत्वाभासस्त्रिधा असिद्धः विरुद्धः संदिग्धश्चेति । अत्र भाष्यम् अनुमेयेन संबद्धं प्रसिद्धं च तदन्विते । तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ॥ विपरीतमतो यत्स्यादेकेन द्वितयेन वा । विरुद्धासिद्धसंदिग्धमलिङ्गं काश्यपोब्रवीत् ॥ ( प्रशस्त० २ पृ० ४४ ) इति । तथा हि काश्यपसूत्रम् अप्रसिद्धोनपदेशोसन् संदिग्धश्चानपदेशः (वै० ३।१।१५ ) इति। अनध्यवसितो नामातिरिक्तश्चतुर्थो हेत्वाभासः इति केचिदाहुः ( प्रशस्त० ) ( त० व० ३२ श्लो० ५६ पृ० ८४ )। साध्यासाधकः पक्ष एव वर्तमानो हेतुः अनध्यवसितः इत्युच्यते । तथा च भाष्यम् यश्चानुमेये विद्यमानः तत्समानासमानजातीययोरसन्नेव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org