SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ग्रन्थोत्पत्तिनामा तृतीय उपोद्घातः । बहुदेशीयः । अयं च A भाषापरिच्छेदनामानं B तट्टीकां न्यायसिद्धान्तमुक्तावलीनामानं ग्रन्थं C न्यायसूत्रवृत्तिं च चकार इति । (३१) रुद्रट्टाचार्यो विश्वनाथन्यायपञ्चानन सहोदरः A गुणप्रकाशविवृतेर्भावप्रकाशिकाम् B रौद्रीनाम्नीं दीधितेर्व्याख्यां च कृतवान् । अनेन मथुरानाथ तर्कवागीशवत् बहवो ग्रन्था व्याख्याताः इति । - ( ३२ ) अथ – अन्नंभट्टश्च कर्णाटकदेशीयः (तैलङ्गदेशीयो वा ? ) । स च काश्यमधीत्य A प्रशस्तपादकृत- वैशेषिकसूत्रभाष्यस्थग्रन्थान् संक्षेपतो गृहीत्वा तर्कसंग्रहनामानं ग्रन्थं B तर्कसंग्रहस्य टीकारूपं तत्त्वचिन्तामणेः रघुनाथतार्किकशिरोमणिकृतदीधितिग्रन्थाच्च सारमुद्धृत्य तर्कदीपिकानामानं च ग्रन्थं रचयामास इति संक्षेपः । अथ ग्रन्थोत्पत्तिनामा तृतीय उपोद्घातः ( न्यायवैशेषिकग्रन्थानामुत्पत्ति संख्यानम् ) ग्रन्थः कर्ता १ ( १ ) न्यायसूत्रम् ( १ ) - गौतमर्षिः । २ ( २ ) न्यायसूत्रस्य भाष्यम् - वात्स्यायनः । ३ ( ३ ) न्यायवार्तिकम् – उद्योतकराचार्यः । ४ ( ४ ) न्यायवार्तिकतात्पर्यम् – वाचस्पतिमिश्रः । ५ ( ५ ) न्यायवार्तिकतात्पर्यपरिशुद्धिः – उदयनाचार्यः । ६ ( ६ ) न्यायसूत्रवृत्ति: – विश्वनाथपञ्चाननः । ७ (७) न्यायसूत्रटीका ( न्यायरहस्यम् ) - रामभद्रः । ८ ( १ ) षोडशपदार्थी - गणेशदासः । ९ (२) टिप्पनम् - वासुदेव सार्वभौम भट्टाचार्यः | २२ रामेश्वरभट्टाचार्यात्मजो रुद्रभट्टाचार्यस्त्वन्य एव । तेन च 'रौद्री ' इत्याख्या न्यायसिद्धान्तमुक्तावल्या व्याख्या कृता । २३ अत्रान्नंभट्टप्रशंसाकिंवदन्ती - 'काशीगमनमात्रेण नान्नंभट्टायते द्विजः' इति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy