________________
दक्षीणां शिवसम्पदं सुविहितश्रेणीविहारैर्व्यधात् ॥ १३ ॥ तर्कादीन् बहु यः स्वयं यदनुजः शब्दानुशास्त्यादिकानेतां श्रीसुरसुन्दरीं च जिनभद्राख्यो यदाद्यान्तिषत् । यच्छिष्यान्तिषदुत्तराध्ययनसद्व्याख्यामशोकेन्दुरातेनेवागधिदेवताकुलमिव क्षोणीतले यत् कुलम् ॥ १४ ॥ ज्योतिश्चक इवास्य शिष्यपटले शीतांशुसूर्यप्रभौ, जज्ञाते स्वपरागमामरपथाध्वन्यौ विनेयावुभौ। तत्राऽऽद्यो जिनचन्द्रसूरिरसृजत् संवेगरङ्गोत्तरां, शालां सर्वसमानमत्र भुवने संवेगसत्रं तु यः॥ १५ ॥ अन्यश्चाऽभयदेवसूरिरुदयल्लोकोत्तरप्रातिभः, कर्तुं स्वात्मनि संयमश्रियमविश्रान्तां प्रसन्नामिव। अत्यन्तं सहचारिणीं प्रियसखीं तस्या नवाङ्गीमिमां, व्याख्यारत्नविभूषणैः किमपि यः प्रासीसदत् सर्वतः ॥ १६ ॥ साक्षाच्छासनदेवतावचनतः प्रस्थाय दूरान्मुदा, श्रीसंघेन चतुर्विधेन सहितः श्रीधर्मचक्रीव यः। सेढीस्वस्तटिनीतटे प्रकटयामासेह तात्कालिकश्रीद्वात्रिंशिकया द्रुतं नवनिधिप्रायं च पार्श्वप्रभुम् ॥ १७ ॥ मुक्त्वा काककुलायवज्जनिभुवं तं चैत्यवास्यालयं, यः पुंस्कोकिलकान्तिरात्मविदुरो वर्तिष्णु तत्र प्रभौ। माकन्दे परपुष्टसाधुकुलमाशिश्राय सत्सिद्धये, स श्रीमान् जिनवल्लभस्तत उदैद् विश्वत्रयीवल्लभः ॥ १८ ॥ यः श्रीमान् मन्दरागो विबुधसमुदयैः पर्युपास्यः समन्तात्, सिद्धान्तक्षीरवार्द्धरतिदुरधिगमागाधमध्यं विगाह्य। स्राक् कर्मग्रन्थ-पिण्डप्रकरणमुखसद्ग्रन्थपीयूषकुण्डैः, प्रत्तैरत्नैश्च धिन्वन् सकलसुमनसोऽभूत् क्षमाभृद्वतंस ॥ १९ ॥ तत्पट्टे जिनदत्तसूरिरुदभूत् श्रीकृष्णमूर्त्तिर्दधद्, विध्यादित्रिपदो य एष नरकप्रष्ठान् वृषद्वेषिणः । बिभ्राणान् भुवि भावभासुरमपाचक्रे परानित्यतः, स्थानेऽसेव्यत यो निदेशमनिशं दिष्टयेच्छुभिर्दैवतैः ॥ २० ॥ तदनु च जिनचन्द्रसूरिसिंहः समजनि शैशवशालिनाऽपि येन।
XII
प्राक्कथन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org