________________
अमरकोषे
प्रथमोऽयं गणः प्रोको द्वितीयं त निबोधत । ऋतजित्सत्यजिच्चैव पुषैषः सेनजित्तथा ॥ अन्तिमित्रो त्यमित्रश्च दूरेमित्रस्तथा परः । गण एष द्वितीयस्तु तृतीयोऽयं निबोधत ॥ ऋतः सत्यो ध्रुवो धर्ता विधर्ताऽय विधारयः। धरुणश्च तृतीये तु चतुर्थ मे निषोधत ॥ ध्वान्तश्च धुनितश्चैवसभरश्च तथा गणः । ईदृक्षासः पुरुषश्चैव ! अन्यादृक्षास एव नः ॥ संमिताः समदृक्षासः प्रतिक्षास वै गणः । मरुतेन्द्रः सरभसस्तथा देवविशोऽपरः ॥ यज्ञश्चैवानुवमानस्तयाऽन्यो मानुषीविशः। दैत्यदेवाः समाख्याताः सप्तैते सप्तका गणाः॥ एते होकोनपश्चाशनमस्तो नामतः स्मृताः ॥ इति हेमादौ दानखण्डे ७७६ तमे पृष्ठे ॥
वायवः पश्चैवेति केचिदाहुस्तेऽत्र लिख्यन्ते । तथा हि-'वायुश्च पञ्चभूतान्त. र्गतभूतविशेषः। तहिशेषविवरणं यथा-वायवः प्राणापानसमानव्यानोदानाः। तत्र १ प्राणो नाम प्रारगमनवानासाप्रवर्ती, २ अपानो नाम अवारगमनवान् पायवादिस्थानवर्ती, ३ व्यानो नाम विष्वगमनवान् अखिलशरीरवर्ती, ४ उदानो नाम कण्ठस्थानीय ऊर्ध्वगमनवानुत्क्रमणवायुः, ५ समानो नाम शरीरमध्यगताशितपीतामादिसमीकरणकरः ( समीकरणन्तु परिपाककरणं रसरूधिरशुक्रपुरोषादिकरणम् ) इति । ___ अन्ये तु नाग २ कूर्म ३ कृकर ४ देवदत्त ५ धनञ्जया ख्याः पञ्चान्ये वायवः सन्तीत्याहुः । तत्र १ नाग दिरणकरः, २ कूर्मो निमीलनादिकरः, ३ कृकरः क्षुधाकरः, ४ देवदत्तो जम्भणकरः, ५ धनञ्जयः पोषणकरः। एतेषां प्राणादिष्वन्तर्भावात्पश्चैवेति केचित् । इति शब्दकल्पद्रुमकोषः ३४१ पृष्ठे। वाचस्पत्युकान्ये कोनपञ्चाशद्वायुनामानि तत्रैव शब्दकल्पद्रुमकोषे १६४-१६८ तमे पृष्ठे 'अनिल' शब्दविवरणे सविस्तरं द्रष्टव्यानि ॥
महाराजिकाः (१1१1१०)-एषां विंशत्यधिकशतद्वयं भेदाः सन्ति ॥
साध्याः ( ११११०)-साध्या द्वादशविधास्तेषां नामानि यथा'मनो मन्ता तथा प्राणो भरोऽपानश्च वीर्यवान् । निर्भयो नरकश्चैव दंशो नारायणो वृषः
प्रभुश्चेति समाख्याताः साया द्वादश देवताः'। इति वाचस्पत्याभिधानस्य ५२७९ तमे पृष्ठे ॥
रुद्रः(१।१।१०)-रुद्रा एकादश सन्ति । ते यथा-१ अजः, २ एकपाद्, ३ श्रहिनना, ४. पिनाकी, ५ अपराजितः, ६ त्र्यम्बका, ७ महेश्वर, Jain Education International For Private & Personal Use Only www.jainelibrary.org