________________
गं गीतं गा च गाथा स्वाद्वौध धेनुः सरखती । घा घण्टाथ समाख्याता घो धनश्च प्रकीर्तितः ॥१०॥ घो घण्टाहननेऽधर्मे कुषोंणा घूलनायपि । डकारो भैरवः ख्यातो डकारो विषयस्पृहा ॥११॥ चश्चन्द्रमाः समाख्यातो भास्करे तस्करे मतः । निर्मलं छं समाख्यातं तरले छः प्रकीर्तितः ॥१२॥ छेदके छः समाख्यातो विद्वद्भिः शब्दकोविदैः । जकारो गायने प्रोक्तो जेमने जः प्रकीर्तितः ॥१३॥ जेता जश्व प्रकथितः सूरिभिः शब्दशासने । रखो झकारः कथितो नष्टे शश्वोच्यते बुधैः ॥१४॥ झकारश्च तथा वायौ नेपथ्ये समुदाहृतः । अकारो गायने प्रोक्तो अकारो झर्झरध्वनौ ॥१५|| टो धरित्र्यां च करके टो ध्वनौ च प्रकीर्तितः । ठकारो जनतायां स्याहो ध्वनौ च शठेऽपि च ॥१६॥ ठो महेशः समाख्यातष्ठश्च शून्ये प्रकीर्तितः । बृहद्धनौ च ठः प्रोक्तस्तथा चन्द्रस्य मण्डले ॥१७॥ डकारः शङ्करे त्रासे ध्वनौ भीमे निरुच्यते । ढकारः कीर्तिता ढका निर्गुणे निर्धने मतः ॥१८॥ णकारः सूकरे ज्ञाने निश्चये निर्णयेऽपि च । सकारः कीर्तितश्चौरे क्रोडपुच्छे प्रकीर्तितः ॥१९॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org