________________
श्रीहेमचन्द्राचार्यविरचितं लिङ्गानुशासनम् ।
पुंलिङ्गं कटणथपभमयरषसस्न्वन्तमिमनलौ किश्तिव् । ननौ घघौदः कि वे खोऽकर्तरि च कः स्यात् ॥ १ हस्तस्तनौष्ठनखदन्तकपोलगुल्फ
केशाध्वगुच्छदिनसर्तुपतद्रहाणाम् । निर्यासनाकरसकण्ठकुठारकोष्ठ
हैमारिवर्षविषबोलरथाशनीनाम् ॥ २ श्वेतप्लवात्ममुरजासिकफाभ्रपङ्क
मन्थत्विषां जलधिशेवधिदेहभाजाम् । मानद्रुमाद्रिविषयाशुगशोणमास
___ धान्याध्वरामिमरुतां सभिदां तु नाम ॥ ३ बर्होऽच्छदेऽहिर्वप्रे ब्रीह्यग्न्योर्हायनबर्हिषौ । मस्तुः सक्तौ स्फटिकेऽच्छो, नीलमित्रौ मणीनयोः ॥ ४ कोणेऽसश्चषके कोशस्तलस्तालचपेटयोः । अनातोघे घनो भूग्नि, दारपाणासुवल्वजाः ।। कान्तश्चन्द्रार्कनामायःपरो यानार्थतो युगः । यश्च स्यादसमाहारे, द्वन्द्वोऽववडवाविति ॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org