________________
४४ अभिधान चिन्तामणौ देवकाण्डः २ प्रतिभा प्रतिपत्प्रज्ञाप्रेक्षाचिदुपलब्धयः । संवित्तिः शेमुषी दृष्टिः, सा मेधा धारणक्षमा ॥३०९॥ पण्डी तत्त्वानुगा मोक्षे ज्ञानं विज्ञानमन्यतः । शुश्रूषी श्रवणं चैव, ग्रहणं धारणं तथा ॥३१॥ उहोऽपोहोऽर्थविज्ञान, तत्त्वज्ञानं च धीगुणाः । ब्रीडा लज्जा मन्दाक्षं हीस्त्रपों साऽपत्रपाऽन्यतः ॥३११॥ जाड्य मौख्यं विषादोऽवसादैः सादौ विषण्णता । मदो मुन्मोहेसम्भेदो, व्याधिस्त्वाधी रुनाकरः ॥३१२॥ निद्रा प्रमीली शयन, संवेश-स्वाप-संलयाः । नन्दीमुखी श्वासहेतिस्तन्द्रा सुप्तं तु साधिका ॥३१३॥
औत्सुक्य रणरणकोत्कण्ठे आयल्लकॉरती। . हृल्लेखोत्कलिके चाथावहित्याकारगोपनम् ॥३१४॥ शङ्काऽनिष्टोत्प्रेक्षणं स्याच्चापले त्वनवस्थितिः । आलस्यं तन्द्रा कौसीधे, हर्षश्चित्तप्रसन्नता ॥३१५॥ ह्लादैः प्रमोर्दैः प्रमदो, मुत्प्रीत्यामोदैसम्माः । आनन्दीनन्दयूँ गर्वस्त्वहङ्कोरोऽवलिप्तता ॥३१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org