________________
निघण्टुशेषः।
२५७ आरोग्यशिम्बिका कर्णी, स्वर्णशेफालिकेत्यपि । बीजके प्रियकः शौरिौरो बन्धूकपुष्पकः ॥ १९८८ कृष्णसों महासर्जः, कल्याणः पीतरोऽसनः । महाशालः पीतशालो, जीवकः प्रियशालकः ॥ १९८९ सुगन्धिीलनिर्यासस्तिष्यः पुष्पोऽलकप्रियः । स तु द्विधा शिखिग्रीवः, श्रेष्ठो गोमूत्रगन्धकः ॥ १९९० अश्वकर्णे दीर्घपत्रः, कषायः सस्यसंवरः । सर्जकः शर्जकः शूरः, कार्यशालो लतातरुः ॥ १९९१ अर्जुने ककुभः सेव्यः, सुवर्णो धूर्तपादपः । देवशाकः शक्रतरुनंदीसोंऽर्जुनाभिधः ॥ १९९२ शाके कोलफलो द्वारदारुयोगी हलीसकः । गन्धसारः स्थिरसारः, स्थिरको ध्रुवसाधनः ॥ १९९३ अभ्रंलिहो महापत्रो, बलसारो बलप्रभः ।। धर्मणे तु धनुर्वृक्षो, गोत्रवृक्षो रुजासहः ॥ १९९४ महाबलो महावृक्षो, राजाहो धन्वनः फलम् । खादुफलो मृत्युफलः, सारवृक्षः सुतेजनः ॥ १९९५ सिल्लके तु सिद्धवृक्षः, कोलिपत्रे तु जोरणः। महापत्रे त्वगदी स्याद्विषशङ्कः पलाशकः ॥ १९९६ पारिभद्रे दुकिलिमं, किलिमं देववल्लभः । . दारुकं स्नेहविद्धं च, देवदुः खर्गतो द्रुमः ॥ १९९७
Jain Education International For Private & Personal Use Only
www.jainelibrary.org