________________
२५४
निघण्टुशेषः। शिशिपायां महाश्यामा, पिच्छिला पाण्डुरच्छदा । कृष्णसाराऽङ्गारवर्णा, गुरुरल्पा तु शिशिपा ॥ १९५८ कुशिशिपा भस्मगर्भा, कपिला भसपिङ्गला । बदर्या कुवलिः कोलिः, कर्कन्धुः फेनिलच्छदा ॥ १९५९ राष्ट्रवृद्धिकरी कोली, सौवीरी वज्रशिल्पिका । घुटा घोण्टा कोपघोण्टा, व्याघ्रगृध्रनखीत्यपि॥ १९६० शम्यां सक्तुफला लक्ष्मीः, शिवा तुझाऽमिपादपः । अजप्रिया भस्मकाष्ठा, शंकरः शिवकीलिका ॥ १९६१ शिवलोमा यतफला, लोमपामविनाशिनी । मङ्गल्या शुचिपत्रा च, फले तस्यास्तु सागरः ॥ १९६२ इङ्गयां तापसतरुर्मार्जारः कण्टकीटकः । बिन्दुकस्तिक्तमज्जा च, पूतिपुष्पफलोऽपि च ॥ १९६३ गुग्गुलौ तु पुरो दुर्गों, महिषाक्षः पलङ्कषः । । जटायुः कालनिर्यासो, वासवोलूकनामकः ॥ १९६४ नक्तंचरः शिवधूपः, कुम्भोलूखलकः शिवः ।। पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः ॥ १९६५ करीरे स्यात्तीक्ष्णसारः, शाकपुष्पो मृदुः फलः । मरुजन्मा गूढपत्रो, प्रन्थिलककरावपि ॥ १९६६ विककते सुवावृक्षो, प्रन्थिलः स्वादुकण्टकः । केकणिः काकपादश्च, व्याघ्रपादोऽपकण्टकः ॥ १९६७
Jain Education International For Private & Personal Use Only
www.jainelibrary.org