________________
नाममालाशिलोञ्छे तिर्यकाण्डः २३९ चित्रकारो लेखेकश्च, लेपैकृल्लेपैकोऽपि च । कुतूहले विनोदोऽपि, सौनिकः खट्टिकोऽपि च ॥१८३१॥ कूटयन्त्रे पाशयन्त्रं', समौ चाण्डालेपुष्कसौ । इत्थं तृतीयकाण्डस्य, शिलोच्छोऽयं समर्थितः ॥१८३२॥ रत्नवती भुवि दिवस्पृथिव्यावपि रोदसी' । माणिबन्ध माणिमंत', सैन्धवे वसुके वर्मु ॥१८३३॥ सङ्कनष्टकणे उपावर्तन' चापि नीवृति । जङ्गलः स्याज्जाङ्गलोऽपि, मालवन्मालको मतः ॥१८३४॥ पत्तने पट्टनमपि, कुण्डिने कुण्डिनापुरम् । स्यात्कुण्डिनपुरमपि, विपणौ पण्यवीथिको ॥१८३५॥ सुरङ्गायां सन्धिरपि, गृहे धाममपि स्मृतम् । उपकार्योपकार्यापि, प्रासादे च प्रसादनः ॥१८३६॥ शान्तीगृहं शान्तिगृहे, प्राङ्गणं त्वङ्गणं मतम् । कपाटवत्कवाटोऽपि, पक्षद्वारे खडक्किको ॥१८३७॥ कुसुलवत्कुसुलोऽपि, सम्पुटे पुट इत्यपि । पेटायां स्यात्पेटकोऽपि', पेडापि कृतिनां मते॥१८३८॥ षवन्यपि समूहिन्यामयोनि' मुसलं विदुः । कण्डोलके पिटकोऽपि', चूल्यामन्तीति कथ्यते ॥१८३९॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org