________________
२ अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ जनकाद् योनि-ज-रुह-जन्म-भू-सूत्यणादयः । धार्यात् ध्वजा-ऽस्त्र-पाण्यऽङ्क-मौलि-भूषण-भृन्निभाः॥६॥ शालि-शेखर-मत्वर्थ-मालि-भर्ती-धरा अपि । भोज्या भुग-ऽन्धो-व्रत-लिट्-पायि-पा-ऽशा-ऽशनाऽऽदयः। पत्युः कान्ता-प्रियतमा-वधू-प्रणयिनी-निभाः । कलत्राद् वर-रमण-प्रणयीश-प्रियादयः
॥ सख्युः सखिसमा वाह्याद् , गामि-याना-ऽऽसनादयः । ज्ञातेः स्वस-दुहित्रा-ऽऽत्मजा-ऽग्रजा-ऽवरजाऽऽदयः ॥९॥ आश्रयात्सद्मपर्याय-शय-वासि-सदाऽऽदयः । वध्याद भिद्-द्वेषि-जिद्-धाति-ध्रुग-ऽरि-ध्वंसि-शासनाः॥१० अप्य-ऽन्तकारि-दमन-दर्पच्छिन्-मथनाऽऽदयः । विवक्षितो हि सम्बन्ध, एकतोऽपि पदात्ततः ॥११॥ विश्वविधाता विश्वकरः विश्वसूः ब्रह्मा, अत्र समशब्द आद्यर्थः, तेन विश्वकारकः विश्वजनक इत्याद्यपि कविरूद्ध्यैव । २ यथा आत्मयोनिः आत्मज इत्यादि । ३ यथा वृषभध्वजः शूलास्त्र इत्यादि । ४ यथा मधुभुक् मध्वंध इत्यादि । ५ यथा नीलकण्ठसखः इत्यादि । ६ यथा वृषगामी वृषयानः इत्यादि । ७ यथा यमस्वसा इत्यादि । ८ यथा द्युसद्मा शुशयः इत्यादि । ९ गया पुरभिद् पुरद्वेषी इत्यादि ।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org