________________
[यतिः
( ४३२ ) यज्ञायज्ञीयम् वाग्यज्ञायझीयम् । तां०५।३।७॥ ११ । ५। २८॥
एते वै यक्षा वागन्ता ये यज्ञायशीयान्ताः। तां०८। ६।१३॥ एषा वै शिशुमारी यशपथे ऽप्यस्ता यज्ञायशीयं यद्विरागिरेत्याहात्मानं तदुद्गाता गिरति । तां० ८।६।९॥ पशवो ऽन्नाधं यज्ञायझीयम् । तां० १५ । ९ । १२ ॥ पन्था वै यज्ञायशीयम् । तां०४।२। २१ ॥ कथमिव यज्ञायशीयनेयमित्याहुर्यथा ऽनड्वान् प्रना
वयमाण इत्थमिव चेत्थमिव चेति । तां०८।७।४॥ ,, स्वर्गो वै लोको यज्ञायशियम् । श० ६ । ४ । ४ । १० ॥ यण्वम् (साम ) पशवो वै यण्वम् । तां० १३ । ३।६॥ यतिः इन्द्रो यतीन् सालावृकेयेभ्यः प्रायच्छत्तमश्लीला वागभ्यवद.
स्लो ऽशुद्धो ऽमन्यत स एतच्छुद्धाशुद्धीयमपश्यत्तेनाशुद्धयत् (इन्द्रो यतीन्सालावृकेभ्यः प्रायच्छत्तान्दाक्षिणत उत्तरवेद्या आदन्-तैत्तिरीयसंहितायाम् ६।२।७।५॥)। तां० १४। ११ । २८॥ इन्द्रो यतीन सालावृकेयेभ्यः प्रायच्छत्तमश्लीला वागभ्यवदत्सो ऽशुद्धो ऽमन्यत स एते शुद्धाशुद्धीये ( सामनी) अपश्यत्ताभ्वामशुद्धयत् । तां० १९ । ४ । ७ ॥ इन्द्रो यतीन् सालावृकेयेभ्यः प्रायच्छत्समश्लीला वागभ्यवदत्ल प्रजापतिमुपाधावत्तस्मा एतमुपहव्यं प्रायच्छत् । तां०१८ ।
, इन्द्रो यतीन् सालावृकयेभ्यः प्रायच्छत्तेषां त्रय उदशिष्यन्त
पृथुरश्मिव॒हद्गिरी रायोवाजः । तां० १३। ४ । १७ ॥ ,, इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत्तेषां प्रय उदशिष्यन्त
रायोवाजो बृहगिरिः पृथुरश्मिः । तां० ८ ॥ १ ॥ ४ ॥ , (इन्द्रः) यतीन्सालावृकेभ्यः प्रादात् [ (अहमिन्द्रः ) यतीन्
सालावृकेभ्यः प्रायच्छम्-शङ्करानन्दीयटीकायुतायां कौषी. तकिब्राह्मणोपनिषदि ३ ॥ १ ॥]। ऐ०७ ॥ २८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org