________________
प्रशंसापत्रावलिः श्रीसङ्केश्वर मठाधीशपूज्यपाद-श्रीमज्जगद्गुरु
शङ्कराचार्याणा
महानुशासनम्। मार्ग. व. २ श. १८६२ ता. १६।१२।४०
स्वस्ति श्रीमत्समस्तसुरवन्दपूजितपादारविन्दशिवप्रतिबिम्बवर्य-श्रीमत्परमहंस परिव्राजकाचार्यपदवाक्य-प्रमाणपारावारपारीणयमः नियमासनप्राणायामप्रत्याहार-ध्यानधारणा समाध्यष्टाङ्ग योगानुष्ठाननिष्ठतपश्चक्रवर्त्यनाद्यविच्छिन्नगुरुपरम्पराप्राप्तषड्दर्शनसंस्थापनाचार्यव्याख्यान् सिंहासनाधीश्वरसकलनिगमागमसारहदयसाडचयत्रयप्रतिपादक सकलनास्तिकमतोच्छेदपूर्वकसकलधर्मसंस्थापनकधुरीण-वैदिकमार्गप्रवर्तक-सर्वतन्त्रस्वतन्त्रश्रीमहाराजधानीऋष्यश्रृङ्गपरवराधीशश्रीमद्राजाधिराजगुरुमण्डलाचार्य । श्रीमच्छङ्कराचार्यान्वयसञ्जाताभिनवपञ्च गङ्गातीरवासकमलानिकेतनकरवीरसिंहासनाधीश्वर श्रीसच्चिदानन्द श्रीविद्यानृसिंहभारतीकरकमलकिजल्कोदभव श्रीमदभिनव-श्री सच्चिदानन्द- श्रीविद्याशङ्कर-भारतीस्वामिकतानि श्रीभाक्सपरिवारच्छात्राणामढदिनमेधमान-भव्यजनकानि श्रीमच्छङ्कराराधनावसरीयनारायणस्मरणानि॥
समवलोकितःकिलायमस्माभिरामूलान्तमापाततः । श्रीउपनिषद्वाक्यकोशस्य पूर्वार्धः। शारीरभाष्यादिवेदान्त-ग्रन्थानधीयानाः प्रायस्सर्वे वेदान्तशास्त्रगहनप्रविविक्षवः प्रमाणत्वेनोदाहृतानामुपनिषद्वाक्यानां क्वचित् क्वचित्समुल्लिखिताना वाक्यखण्डानां च स्थलादिक साकल्येन यथार्थपाठपूर्वक ज्ञान चान्तराद्यावधि नितान्तं क्लिश्यन्त एवासन् । तेषा तमिम क्लेशमनलक्ष्य साधले । इत्युपाख्यशम्भुसूनुभिः जाननशास्त्रिभिः सम्पादितोऽयमुपनिषद्वाक्यमहाकोशः।
मुद्रणसौष्ठवेन पत्राणां च हृदयङ्गमत्वेनायं कोशः सर्वेषामेवान्तरङ्ग हठादेवावर्जयेदिति बलीयान्नो विश्वासः। तदयमवश्यं संगृह्यता वेदान्तशास्त्रप्रणयिभिरनतिप्रयासमेवोपनिषद्वाक्यानि स्थान ज्ञानेन पूर्वापर-सन्दर्भपूर्वकमवाप्तु विज्ञातुं चाभिलष्यभिरन्यैरपीति संसूच्यते सप्रमोदोन्मेषमस्माभिः।
जराजर्जरितेऽपि वयसि सम्पादकवयः साघलेमहाशयः समारब्धेऽस्मिन्महत्यपि कर्मणि श्रीशारदाचन्द्रमौलीश्वरो यशः श्रियं च निरन्तराय सम्पादयेदित्याशास्महे।
महानुशासन वरीवर्ति
Jam Loucation International
For