________________
तदवसरे पूज्यवरैरागमविषयकाल्पपरिचित शब्दावबोधाय परमोपयोगीमार्गदर्शककल्पः "श्रीआगमकोषः" विरचनाय तत्तदागमे तद्ज्ञापकं चिह्न कृतं ततोऽयं 'श्रीअल्पपरिचितसैद्धान्तिकशब्दकोष'प्रादुरासीद्, तमुद्रणं जातं इत्यभिधाभृद्भवत्करकमले ।
यदि मुद्रितोऽयं भवेद् ग्रन्थस्तदा श्रीमज्जिनागमाध्ययनेप्सूनां स्यादतीवोपयोगीति पूज्यानां हृत्कमले प्रादूर्भूता सद्भावना भवितव्यता नियोगतोऽद्य सफलीभवति.......( एतत्सम्बन्धिनिवेदमाद्यभावे गुर्जरभाषानिबद्धप्रस्तावनायां कृतमस्तीति हेतोरत्र न लिख्यते ) ।
अस्य ग्रन्थरत्नस्य पूर्व प्रेसकोप्यादिषु पू० स्व० मुनिवर्यश्रीमहेन्द्रसागरादिभिः प्रयत्नः कृतोऽभूत् । तत्पश्चात पू० मुनिश्री ( अधुना पंन्यासश्री) सौभाग्यसागरजीः, संशोधनं सम्पादनकार्यस्तु पू० मुनिश्री (पं०) कंचनसागरजी; पू० मुनि श्रीक्षेमङ्करसागराणां समर्पितं तैविहितोऽस्ति प्रशस्यः प्रयत्नः ।
विभागपञ्चककलितोऽयं ग्रन्थः प्रथमभागे-'आकारादारभ्य औकारान्ताः शब्दाः संगृहीताः सन्ति द्वितीयभागे-ककारतः झकारपर्यन्ताः ततीयभागे-टकारत: पकारावसानाः चतुर्थविभागे-फकारत: वकारान्ताः पञ्चमविभागे-शकारतः हकारान्तः , , ,
ततोऽप्यवशिष्टाः शब्दाः परिशिष्टे संगृहीताः सन्ति । शब्दकोषेऽस्मिम्' अङ्गोपाङ्ग-छेदसूत्रत्रय-नन्द्यनुयोगद्वारओघनियुक्ति मूलसूत्रचतुष्टय-विशेषावश्यकमाष्यसत्का: शब्दास्तथा च श्रीदशाश्रुतस्कन्ध, प्रकीर्णकदशक-पउमचरिय-उपदेशमाला-तत्त्वार्थसूत्रप्रभृतीणां कतिपयाः शब्दाः अपि सङ्कलिताः सन्ति, द्वितीयपरिशिष्टे देशीयनाममालानां शब्दा गृहीताः सन्ति । रीत्याऽनया ग्रन्थोऽयं सर्वाङ्गसुन्दरः संजातोऽस्तीति सुनिश्चितमेव ।
श्रीआगमस्थिताः स्वल्पपरिचिता एव शब्दा ग्रन्थेऽस्मिन् संगृहीताः सन्तीति हेतोः ग्रन्थस्यास्य "श्रीअल्पपरिचितसैद्धान्तिकशब्दकोष" इत्यभिधा सार्थकतामातनोति ।
आगमानां रचयितारः परमोपकारिणी गणभृतादयः, शब्दानां सङ्कलयिताराः श्रीआगमोद्धारकप्रवराः, अकारादिक्रमतया व्यवस्थापकाश्च विद्वज्जनमान्याः मुनिप्रवरा सन्तीति त्रिवेणीसङ्गमाद् ग्रन्थोऽयं महत्त्वपूर्णतामाकलयतीति ।
श्रीमदागमज्ञानरसिकाः मुनिवराः परमतारकगुरुवर्यसुनिश्रायामागमज्ञानावाप्तिकालेऽस्य ग्रन्थस्य पठनपाठनादिना सविशेषमपयोगं कृत्वा सदाऽऽगमरहस्यमवाप्नुयुरित्यभिलाषापूरस्सरं मतिमान्यादिना यत्किश्विज्जिनाशाविरुद्ध लिखितं स्यात्तस्य मिथ्यादुष्कृतपुरस्सरं च विरमामि । वि० सं० २०३४ अ. सु. ६
लेखकः भौमवासरः
परमशासनप्रभावक पू० स्व० आचार्यदेवश्रीचन्द्रसागरसूरिवयं-पट्टधर(श्री महावीरच्यवनकल्याणक दिन:)
परमाराध्यचरणाम्बुजपरमतारक-परमोपकारि-पू० गुरुदेव श्रीमद्ओपेरासोसायटी जैन उयाश्रय
देवेन्द्रसागरसूरीश्वरपादपद्ममधुलिड् पालडी
नरदेवसागरः अहमदाबाद ३८०००७
( ८
)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org