SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीआगमोद्धारक-स्तवः वर्षान्ते 'चारुतर'जनतां बोधयित्वायतत्त्वं, 'छाणीग्रामे'ऽवसदृषिमितं वृष्टिकालं सुधीरः। मूर्तिन्हावाञ्जिनमतरिपून दुण्ढकान् जोषमाऽऽस्य, 'कल्लोलाख्ये'पुरि विहरता येन दीप्तं सुचारु ॥ २२ ॥ शास्त्रव्याख्याचकितसुबुध स्तम्भने यो ह्यकार्षी च्चातुर्मासं वसुमितमथो कृप्तधर्मप्रचारः । प्रशोत्कर्णाजिनमतहितात् पार्श्वचन्द्रान्यतीर्थान , कृत्वा वादे प्रतिहतधियो भासिता जैनदृष्टिः ॥ ३० ॥ वर्षान्ते षड्रियुतभविक सङ्घमादाय भव्यं, यात्रां कृत्वा विमलगिरिसत्तीर्थराजस्य सम्यक् । भव्योद्बोधं सुविधिविचरन वर्ष साणं 'पुर्या', चातुर्मासं नवममवसच्छास्त्रतत्त्वप्रकाशी ॥ ३१ ॥ चातुर्मासत्रय महमदावाद'माश्रित्य लब्धा, शाब्दे न्याये रुचिरपटुता येन विद्वत्सुमान्या। कृत्वा रम्यां सुविधि तमसां नोदिकां तीर्थयात्रां, दुष्कालात्तों सहकृतिनिधिः कारिता ‘पट्टणे' येः ॥ ३२ ॥ नागाक्षाङ्केन्दुमितशरदो माघराकाहिरम्ये, प्रायच्छद्धर्मजजरणछोडाय दीक्षा सुशिक्षाम् । आद्यं शिष्यं 'विजयसहितं सागरान्तं विधाय, वर्षा ब्रह्मेषुनिधिकुभवां 'भावपुर्या मवात्सीत् ॥ ३३ ॥ १ सप्तमम् । २ मूर्तेरपलापकारिणः । ३ अष्टमम् | ४ एष हि शब्दः भाषायां 'छरीपालतो संब' इत्युच्यते । ५ व्याकरणे इत्यर्थः । ६ पापानामित्यर्थः । ७ 'सहायकारी फंड' इति भावः । ८ गूर्जरदेशीयाणहिट्रपुराख्य पट्टणे इति भावः। ९ (पेटलादासन्न ) धरमजवासिने रणछोडदासाख्यपाटीदारज्ञातिकाय भव्यारेत्यर्थः । १० भावनगरे इत्यर्थः । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy