SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ तत्रभवतां श्रीमन्नीतिसूरीश्वरगुरुदेवानां स्तुत्यष्टकम् । [ पञ्चचामरवृत्तसमलङ्कृतम् ] परं विरागमागतस्ततः स्वकीयजन्मभृः पिता प्रसूस्तथा गृहादि सर्वमप्यपः I अरण्यमेत्य संयमं स्वयं गृहीतवानहो ! स्मरामि भूरि भूरि नीतिसूरिणं सदैव तम् ।।१।। यदीयमाद्यमक्षरं तु 'वां' द्वितीयमस्ति 'का' तृतीयमस्ति 'ने' तथा चतुर्थमक्षरं च 'रम्' । अदूषणं विभूषणं ह्यभूत् पुरस्य तस्य यः स्मरामि भूरि भूरि नीतिसूरिणं सदैव तम् ।।२ ।। समुन्नतोज्जयन्त - पर्वतस्थ - नेमि-तीर्थपादि- जीर्णरूप - मन्दिर - व्रजस्य नाम दुष्कराम् । समुद्धृतिं निजौजसा विधापयाम्बभूव यः स्मरामि भूरि भूरि नीतिसूरिणं सदैव तम् ||३ ॥ अदीक्षितस्थितौ 'निहालचन्द' नामनि स्थितं कलङ्कहीनजीवनेन यद्वपुः पवित्रितम् । उपासकं महत्तरं तु सौरिमन्त्रमस्पृहं स्मरामि भूरि भूरि नीतिसूरिणं सदैव तम् ।।४।। प्रसन्नता - विकस्वरं सदा यदीयमाननं विशालभालमप्यभात् सुलक्षणाङ्कितं किल । उदारतार्जवे तथा धरन्तमुत्तमं यशः स्मरामि भूरि भूरि नीतिसूरिणं सदैव तम् ॥ ५॥ Jain Education International महाप्रभावमावहन्नहंयुतामनावहन् सहन्ननानुकूल्यमन्यतो विरोधमान् । विराजते स्म यो महामना इति क्षितिं पुनन् स्मरामि भूरि भूरि नीतिसूरिणं सदैव तम् ।। ६ ।। तपागणाधिपं सहस्त्रभानुवद्विभान्तमाशिशुत्वशुद्धशीलशालिनं गभीरमब्धिवत् । सुपर्ववद्गिरासु धारयन्तमप्यमोघतां स्मरामि भूरि भूरि नीतिसूरिणं सदैव तम् ॥७॥ पवित्रचित्रकूटतीर्थजीर्णतां विशीर्णतामनीनयत् तथैव यश्च नीतिवन्मना अभूत् । विनेयमुत्तमं हि 'भाव' नामधेयसद्गुरोः स्मरामि भूरि भूरि नीतिसूरिणं सदैव तम् ।।८।। -: प्रशस्तिरथ: एवङ्कारमकारि नीतिसुगुरोः स्तुत्यष्टकं कष्टहृत् सच्छिष्येण मणिप्रभेण मुनिना सूरेर्महेन्द्रस्य यद् । २०२८ वर्षे विक्रमभूमतो गज- कर व्योमो ष्ठ संख्याधरे नित्यं सद्गुणरागिणां तनुभृतां तद् गीयतामानने ।। *** For Private & Personal Use Only रचयिता - प. पू. आ. दे. श्रीमहेन्द्रसूरीश्वरचरणाम्भोजभृङ्गः मणिप्रभविजयो मुनिः [ रत्नपुञ्जः ] www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy