________________
४४
‘सप्तर्षयः' इत्यत्र ‘दिक्संख्ये संज्ञायाम् ' २ ।१ १५० ॥ इति समासः । चित्रो विचित्रः शिखण्डश्चडाविशेषोऽस्त्येषामिति चित्रशिखण्डिनः । व्रीह्यादिभ्यश्च ५ ।२ । ११६ ॥ इतीनि: । मरीचिप्रमुखाः । सप्तर्षय: प्रत्येकं चित्रशिखण्डिन उच्यन्त इत्यर्थः ॥ पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ ॥१२४॥
१ पुष्पे इव पुष्पे, दन्ताविव दन्तौ, पुष्पे च ते दन्तौ च पुष्पदन्तौ । यद् विश्वदन्तः "रविशशिनौ पुष्पदन्तौ "[] इति । २ (अथवा पुष्पनं पुष्प:, 'पुष्प विकसने'(दि.प.से.), भावे घञ्), पुष्पो विकासोऽस्त्यनयोरिति पुष्पवन्तौ । ' तदस्या१० स्त्यस्मिन्निति मतुप् ५ ।२ ।९४ ॥ "रविशशिनौ द्वौ संपृक्तावेवोच्येते, न तु पुष्पदन्तः पुष्पवान् वा इन्दुः सूर्यो वा उच्यते " [ स्वो . टी., श्रो- १२४] इत्याचार्या: । एकैकाभिधाने एकवचनान्तोऽपि । " पुष्पवान्' इति मतुबन्तश्चायम् ' [ ] इति बृहस्पतिः । (अकारान्तोऽपि पुष्पवन्तशब्दः, 'अव रक्षणे (भ्वा.प.से.), ' 'जृ (ज्) विशिभ्यां झच्' (उणा - ४०६ ) इति बाहुलकादवतेरपि झच्, 'झोऽन्तः '७।१।३ ॥ पुष्पस्यावन्ता (न्तौ) विग्रहे शकन्ध्वादिः) । "रविशशिनौ पुष्पवन्ताख्यौ "["]इति नाममालायाम्, "प्राक् प्रत्यग्धरणीधरशिखरस्थितपुष्पवन्ताभ्याम् ''[]इत्याश्चर्यमञ्जर्यां चाऽदन्तत्वदर्शनान्नित्यद्विवचनश्चायम्, मिलितयोरेवा२० भिधायकत्वात् तथैव सर्वत्र दर्शनाच्च । शशिभास्करावित्यत्र 'देवताद्वन्द्वे च '६ | ३ |२६ ॥ इति नानङ्, तत्र 'आनङ् ऋतो द्वन्द्वे' ६ ॥३॥२५ ॥ इत्यतो द्वन्द्वग्रहणेऽनुवर्तमाने पुनर्द्वन्द्वग्रहणेन वेदलोकसहचरितद्वन्द्वग्रहणादस्य तु द्वन्द्वस्याऽतथात्वात् । अत एव "रविचन्द्रावपि नोपलक्षितौ "[ घटकर्पर काव्यम्, श्रो- १] इति घटकर्परः । द्वे एकोक्त्या चन्द्रसूर्ययोः ॥ १२४॥ राहुग्रासोऽर्केन्द्वोर्ग्रह उपराग उपप्लवः ।
१ राहुर्णा ग्रसनं राहुग्रासः । 'ग्रसु अदने '(भ्वा.आ.से.), भावे घञ् । अर्कश्चेन्दुश्च अर्केन्दू, तयोः कर्मभूतयोग्रहणं ग्रहः । 'ग्रह उपादाने ' (क्र्या.उ.से.), 'ग्रहवृदृ- '३३ ।५८ ॥ ३० इत्यप् । २ उपरज्येते छाद्येते चन्द्रार्कावनेनेति उपरागः । ' रञ्ज
अभिधानचिन्तामणिनाममाला
रागे' (भ्वा.उ.अ.), करणे घञ्, 'चजोः कु घिण्ण्यतोः '७।३ ॥ ५२ ॥ इति कुत्वम्, 'घञि च भावकरणयोः ६ ४ २७ ॥ इति न्लोपः, 'अत उपधायाः'७।२।११६॥ ३ उपप्लूयतेऽनेन उपप्लवः । 'प्लूङ् गतौ' (भ्वा.आ.अ.), ‘ऋदोरप् '३।३।५७ ॥ इत्यप्, 'सार्वधातुकार्धधातुकयोः ७ १३ ।८४ ॥ इति गुणः । त्रीणि ग्रहणस्य ॥
Jain Education International
उपलिङ्गं त्वरिष्टं स्यादुपसर्ग उपद्रवः ॥ १२५ ॥ अर्जन्यमीतिरुत्पातः
[ देवकाण्डः-२
१ उपलिङ्ङ्कृते दोषैर्गम्यते जनोऽत्र उपलिङ्गम् । 'लिगि विचित्रीकरणे' (चु.उ.से.), अधिकरणे घञ् । २ नास्ति रिष्टं क्षेममत्र अरिष्टम् । ३ उपसृज्यत उपद्रूयते प्रजा अत्रेति ४० उपसर्ग: । 'सृज विसर्गे ' ( दि.आ.अ.), अधिकरणे घञ्, 'पुगन्तलघूपधस्य- '७।३।८६ ॥ इति गुणः, 'चजो: कु घिण्ण्यतो : ' ७।३।५२|| ४ उपद्रूयते प्रजा अत्र उपद्रवः । 'द्रु गतौ ' (भ्वा.प.अ.), ‘ऋदोरप्’३।३।५७॥ ॥१२५ ॥ ५ न जन्यते पुरुषव्यापारेणेति अजन्यम् । 'जनी प्रादुर्भावे ' ( दि.आ.से.), अतो णिजन्तात् 'तकिशसिचतियतिजनिभ्यश्च' (वा ३।१।९७ ॥ ) इति यत् । " जने साधु जन्यम्, न जन्यम् अजन्यम् "[ ] इत्यन्ये । पुंक्लीबलिङ्ग: । ६ ईयते प्राप्यते दुःखमस्यामिति ईतिः, चतुर्थस्वरादिः । 'इण् गतौ' (भ्वा.प.अ.), क्तिन् । ७ उत्पतत्यकस्मादायाति उत्पातः । ‘पत्लृ गतौ’(भ्वा.प.से), 'ज्वलतिकसन्तेभ्यो णः '३ ।१ ।१४० ॥ ५० सप्त उपद्रवस्य ॥
वह्न्युत्पात उपार्हितः । १ वह्निना कृत उत्पातः वह्न्युत्पातः । शाकपार्थिवादित्वान्मध्यपदलोपः । २ उप आसन्नमहितमस्य उपाहितः । 'धूमकेत्वाख्य उत्पातः "[ ] इत्येके । द्वे वह्निकृतोपद्रवर्यं ॥ स्यात् कालः समेयो दिष्टानेहसौ सर्वमूषकः ॥१२६॥
१ कल्यतेऽसौ कालः । 'कल संख्याने शब्दे चं' (भ्वा.आ.से.), कर्मणि घञ्, 'अत उपधायाः '७।२ । ११६ ॥ इति वृद्धिः । कालयति क्षिपति सर्वभावानिति वा । 'पचाद्यच्' [ ]इति तु स्वामी । 'कल शब्दसंख्यानयोः ' (भ्वा.आ.से.), ६० कलते काल:, 'अकर्तरि च कारके - '३ । ३ । १९ ॥ इति घञ् वा । २ सम् सम्यक् एति समयः, पुंक्लीबलिङ्गः । सम्पूर्वः 'इण् गतौ ' (भ्वा.प.अ.), पचाद्यच् । ३ दिश्यते स्मेति दिष्टः । 'दिश अतिसर्जने ' (तु.प.अ.), 'निष्ठा'३।२।१०२ ॥ इति क्तः, 'व्रश्चभ्रस्ज-'८।२।३६ ॥ इत्यादिना षत्वम्, ष्टुत्वम् । ४ नाहन्ति गतः सन्निति अनेहा, पुंलिङ्गः। 'हन् (हन) हिंसागत्योः ' ( अ.प.अ.), 'नञो (नञि) हन एह च' (उणा-६६३) इत्यसुन्प्रत्ययः, आहन्स्थाने एहादेशः, 'तस्मान्नुडचि '६ ३ ७४ ॥ इति नुट्, 'ऋदुशन- ७११ ।९४ ॥ इत्यादिना चाऽनङ् | न ईहते
44
१. द्र. स्वोपज्ञटीका २।१२४ ॥ पृ.२८ ॥ २. कोष्ठान्तर्गतपाठः १ प्रतावेव दृश्यते, तत्र ' अथवा ' इत्यनुपयुक्तः ॥ ३. स्वोपज्ञटीकायां तु "एकयोक्त्या अपृथग्वचनेन रोदसीवच्छशिभास्करावुच्येते ॥ न तु पुष्पदन्तः पुष्पवान् वा इन्दुः सूर्यो वोच्यते " इति पाठो दृश्यते ॥ ४. कोष्ठान्तर्गतपठः १ प्रतावेव दृश्यते ॥ ५. द्र. रामाश्रमी १ १४ ॥१० ॥, पृ.५९ ॥ ६. अमरकोशामरपदपारिजातटीका ११४ ॥ ११ ॥, पृ.७९ ॥ ७. ' - खर्परः' इति १ ॥ ८. 'राहो : ' इति १ ॥ ९. ' - चित्रीकरणे ' इति स्वामिसायणौ ॥ १०. इतोऽग्रे ४प्रतौ 'नामानि ' इति दृश्यते ॥ ११. 'कल शब्दसंख्यानयो:' इति क्षीरतरङ्गिण्यादौ ॥
For Private Personal Use Only
www.jamelibrary.org