________________
४६०
(तु.प.से.), बाहुलकाद् 'ऋच्छेररन् ' ( उणा - ४११ ) इत्यरन्, कुटादित्वाद् गुणाभावः । कुटक इति वा । त्रीणि विष्कम्भस्य । 'मांकडी' इति भाषा
॥१०२३ ॥
शालाजी वर्धमानः शराव:
१ शालायां जीर्यते शालाजीरः । पृषोदरादिः । २ वर्धते क्रमेण विस्तीर्णो भवति वर्धमानः । 'वृधु वृद्धौ' (भ्वा.आ.से.), ' ताच्छील्यवयोवचनशक्तिषु चानश् '३ ।२ ।१२९ ॥, ' आने मुक्’७।२।८२ ॥ | स्वार्थे कनि वर्धमानकमपि । "भ्रमयत्यचिरं ( -त्युचितं) विदर्भजानननीराजनवर्ध१० मानकम्''[नैषधीयचरितम्, सर्गः - २, श्लो-२६ ] इति श्रीहर्षः । ३ शृणन्ति हिंसन्ति शराः । 'शृ हिंसायाम् ' (क्र्या.प.से.), अच् । शराः हिंसकाः कीटकादयस्तेभ्योऽवति शरावः । 'अव रक्षणादौ ' (भ्वा.प.से.), पचाद्यच्, मूलविभुजादित्वात् को वा । पुंक्लीबलिङ्गावेतौ । “शफरशरीर (शराव ) श्रोणीशृणां - (शूलां) शुकशारिकाशम्बा" [ ] इति शभेदात् तालव्यादिः, दन्त्यादिश्च । त्रीणि 'शरावला' इति ख्यातस्य ॥ कोशिका पुनः । मल्लिका चषैकः कंसः पारी स्यात् पानभाजनम्
२०
अभिधानचिन्तामणिनाममाला
।। १०२४ ॥
१ तैलेन कुश्यतिष्यति कोशिका । 'कुश ( ), ण्वुल् । २ मल्लते मल्लिका । 'मल मल्ल धारणे' (भ्वा.आ.से.), 'संज्ञायाम् ' ३ | ३ |१०९ ॥ इति स्त्रियां वुल् । ३ चषत्यनेन चषकः । 'चष भक्षणे ' (भ्वा.उ.से.), 'क्वन् शिल्पिसंज्ञयो: ' ( उणा - १९० ) इति क्वुन् । ४ काम्यते कंसः । 'कमु कान्तौ ' (भ्वा.आ.से.), 'वृतृवदि- ' ( उणा३४२)इति सः । पुंक्लीबलिङ्गावेतौ । ५ पारयति 'पार तीर कर्मसमाप्तौ ' ( चु.उ.से.), णिजन्तः, अच्, गौरादिः । ६ पानस्य भाजनं पानभाजनम् । षट् समान्येन लोटीप्रभृतिभाजनस्य । “कोशिका मल्लिका प्रोक्ता "[ हलायुधकोशः ३० २।३१६ ॥ ] इति हलायुधः । " तैलाधारपात्रे द्वौ । तैलेन कुश्यति निष्यति कौशिका (कोशिका) । मल्लते तैलं
।
१. 'शृण्वन्ति' इति३ ॥ २. द्र. पदचन्द्रिका, भा-२, वैश्यवर्ग:, श्रो- ६०५, इति१.३ ॥, दुर्गसम्मतोऽयं धातुपाठः ॥ ६. 'एतौ' इति ४प्रतौ नास्ति ॥ 'भ्रमेश्च डू:' इत्युणादिगणसूत्रस्वरूपम् ॥ ११. 'तुमा-' इति३ ॥ १२. 'दीवडूं ' इति३, 'डु' इति १ २ ॥। १५. ' इत्यादि -' इति३.५ ॥ १६. 'ल' भडिधातोरात्मनेपदित्वाद् 'भण्डते' इति युक्तः ॥
Jain Education International
[ तिर्यक्काण्डः ४, पृथ्वीकायः
धारयति मल्लिका, ण्वुलन्तौ " [ ] इति तट्टीका कोशिका मल्लिका एतौ शब्दौ तैलभाजननाम्नी आह ।। १०२४ ॥ कुतूश्चर्मस्नेहपात्रम्
१ कुत्सितं तन्यते कुतूः, स्त्रीलिङ्गः। ‘तनु विस्तारे' (त.उ.से.), 'भ्रमेङू:'(उणा - २२६ ) इति बाहुलकादतोऽपि डूः । कौति शब्दायते वा । 'कुङ् (कु) शब्दे' ( अ.प.अ.) बाहुलकात् ‘तनिगृध्योः(नृतिशृध्योः ) कुः ' ( उणा -९१) इति कुः, तुगागमश्च, सवर्णदीर्घत्वे कुतूः । चर्मणः स्नेहस्य तैलादैः पात्रं चर्मस्नेहपात्रम् । एकं 'कूडा' इति ख्यातस्य ॥ ४० कुतुपस्तु तदल्पकम् ।
१ तत् चर्मस्नेहपात्रम्, ह्रस्वा कुतूः कुतुपः, द्विपञ्चमस्वर: । 'कुत्वा डुपच्५ । ३ ।८९ ॥ इति डुपच् । "अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ "[ ] इति लहरी । पुंल्लिङ्गोऽयम् । एकं 'कुडी' इति ख्यातायाः ॥ दृतिः खल्लः
१ द्रियते दृतिः, पुंसि । 'दृ विदारणे' (क्र्या.प.से.), 'दृणातेर्हस्वश्च' (उणा ६२३) इति ति: [ दृतिः ] । खलति खल्लः, पुंसि । " खल्लं क्लीबम् ' [ वैजयन्तीकोषः ४ | ३ |६० ॥ ] इति वैजयन्ती । 'भिल्लाच्छ भल्ल- ' ( है मोणा - ४६४ ) इति ले ५० निपात्यते । एकं दृतेः । 'दई भाषा चर्ममयी त्वालूः करकपात्रिका ॥१०२५ ॥
11
१ करकवत् पिबन्त्यनया करकपात्री, स्वार्थे कनि करकपात्रिका । चर्ममयी तु आलू: 'करवा' इति प्रसिद्धिः । एकं 'छागली' इति ख्यातस्य
॥१०२५ ॥
सर्वमावपनं भाण्डम्
१ आ उप्यते स्थाप्यते द्रव्यमत्रेति आवपनम् । 'टु (डु)वप् बीजतन्तुसन्ताने' (भ्वा.उ.अ.), अधिकरणे ल्युट् । २ भाण्डत्याधेयं भाण्डम् । 'भडि परिभाषणे' (भ्वा.आ.से.), अच्, पृषोदरादिदीर्घता । भामतेऽस्मादिति वा । ६०
पृ. ६९१ ॥ ३. लां' इति १ २ ॥ ४. 'कौ -' इति५ ॥ ५. 'श्रूषणे' ७ ' तीति' इति ॥ ८ 'ते' इति ॥ ९. 'कौ-' इति१.३ ॥ १०. 'दिः' इति३ ॥ १३. 'खल्वं' इति वैजयन्तीकोषे, पृ. ११९ ॥ १४. इति १ २.५ ॥ १७ 'बीजसन्ताने' इति१, क्षीरतरङ्गिण्यादयश्च ॥ १८.
For Private & Personal Use Only
www.jainelibrary.org