________________
१०
९४०-९४४]
व्युत्पत्तिरत्नाकरकलिता
रौमकं तु रुमभवं 1
वसुकं वस्तकं तच्च
१ रुमायामाकरे भवं रौमकम् । प्राग्दीव्यतीयेऽणि, स्वार्थिके च कनि । २ रुमायां भवति रुमाभवम्, अच् । ३ वसति वसु । 'वर्स निवासे' (भ्वा.प.अ.), 'मृ(शृ)स्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च' ( उणा - १० ) इत्युः । वस्वेव वसुकम्, पञ्चमस्वरमध्यः । स्वार्थे कन् । "रौमकं वसुकं वसु " [ ] इति माला । ४ वस्तश्छागस्तदन्धि वस्तकम्, दन्त्यतुर्यवर्गाद्यमध्यः । चत्वारि सामान्येन लवणस्य ॥ विंडपाक्ये तु कृत्रिमे ॥९४२॥
१ विलति भिनत्ति मलान् विडम् । 'बिले भेदने' (तु.प.से.), 'इगुपध- '३ । १ । १३५ ॥ इति कः । २ पा साधु पाक्यम् । तत्र साधुः ४ १४ ९८ ॥ इति यत् । पच्यत इति वा । 'डुपचष् पाके' (भ्वा.उ. अ.), 'ऋहलोर्ण्यत्' ३।१।१२४॥, ‘चजोः कु घिण्ण्यतोः ७ । ३ ५२ ॥ इति कुत्वम्, 'अत उपधायाः '७ । २ । ११६ ॥ । कृत्रिमे कृतके लवणे कल्लराख्य इत्यर्थः । पाक्यविडलवणयोर्भेदेऽपि कृतकत्वादैक्यम् । "कृत्रिमं रचिते प्रोक्तं सिह्नके लवणान्तरे [विश्वप्रकाशकोशः, मान्तवर्ग:, श्रो- ४५ ] इति महेश्वरः । २० ‘“विडं कृत्रिमकं धूर्तं क्षारं द्रावणमासुरम् ।
"
सुपाक्यं खण्डलवणं कृत्रिमं चेति नामतः 112 11" [ धन्वन्तरिनिघण्टुः, शतपुष्पादिर्द्वितीयो वर्गः, श्रो-२८] इति धन्वन्तरिश्च । यथा- " न रोचते भोज्यमकृत्रिमं नृणाम् " [] इति । त्रीणि 'विडलवण' इति ख्यातस्य ॥ ९४२ ॥ सौवर्चलेऽक्षं रुचकं दुर्गन्धं शूलनाशनम् ।
Jain Education International
१ सुवर्चलाकरे भवं सौवर्चलम् । सुष्ठु वर्च सुवर्चः । 'वर्च दीप्तौ ' (भ्वा.आ.से.), अच् । तस्येदं सौवर्चम्, जठराग्निदीपनम्, तल्लातीति वा । पुंनपुंसकलिङ्गम्, तत्र । अक्ष्णोति व्याप्नोति अक्षम् | 'अक्ष (अक्षू)
४१९
व्याप्तौ सङ्घाते च ' (भ्वा.प.वे.), [अच्]। ३ रोचतेऽन्न- ३० मनेन रुचकम् । 'रुच दीप्तौँ (भ्वा.आ.से.),
कान्त, ( ) वा, बाहुलकात् क्वुन्, कित्त्वाद् गुणाभावः । ४ दुष्टो गन्धोऽस्य दुर्गन्धम् । ५ शूलरोगं नाशयति शूलनाशनम् । णश अदर्शने ' (दि.प.से.), णिजन्तः, नन्द्यादित्वाल्ल्युः । हृद्यगन्धं च । पंच 'सूंचल' इति ख्यातस्य ॥ कृष्णे तु तत्र तिलकम्
१ तत्र कृष्णे सौवर्चले, तिलति स्निह्यति तिलकम्, पुंक्लीबम् । 'तिल स्नेहने ' ( तु.प.से.), बाहुलकाद् 'अन्यत्रापि क्वुन् ' ( उणा - १९५) इति क्वुन् । “पूर्वं तु मधुवर्णमगन्धं कृष्णवर्णं तिलकम् "[ ] इत्येके । यद् ४० वैद्या:-" कृष्णे सौवर्चलगुणा लवणे गन्धवर्जिते [] एकं कृष्णसौवर्चलस्य ॥
यवक्षारो यर्वाग्रज : ॥ ९४३ ॥
.
यवनालजः पाक्यश्च
१ यवानां क्षारो यवक्षारः । २ यवाग्रेभ्यो जातः यवाग्रजः | 'पञ्चम्यामजातौ ' ३ ।२ ।९८ ॥ इति डः । दग्ध्वा यवाङ्कुराज्जन्यत इत्यर्थः ॥ ९४३ ॥ ३ यवनालेभ्यो जातः यवनालजः । ४ पचनीयः पाक्यः । 'ऋहलोर्ण्यत्' ३।१।१२४॥ । असौ वनस्पतिकायजातोऽपि क्षारप्रस्तावात् पृथिवीकाये भणितः । एवं स (स्व) र्जिकाक्षारादावप्यूह्यम् । चत्वारि यवक्षारस्य ||
५०
पाचनेकस्तु टङ्कर्णः । मालतीतीरजो लोहश्लेष्मणो रसशोधनः ॥९४४॥ १ पाचयति पाचनः । पचेर्णिजन्ताद् नन्द्यादित्वाद् ल्युः । स्वार्थे कनि पाचनकः । २ टङ्कयति लोहं टङ्कणः । 'टकि बन्धने' (चु.उ.से.), बाहुलकादणच् । टङ्कनोऽपि । ३ मालत्यास्तीरे जातो मालतीतीरजः । ४
१. 'वसु' इति४ ॥ २. इतोऽग्रे ३प्रतौ 'तच्च' इति दृश्यते ॥ ३. 'कञ्' इति५ ॥ ४ द्र. अम.क्षीर. २ ९४२ ॥ पृ. २०९ ॥ रामाश्रमी २ ।९ १४२ ॥ पृ. ४१९ ॥, तयोः 'वसुकं' इत्यस्य स्थाने 'वस्तकं' इति दृश्यते ॥ स्वोपज्ञटीका ४ १९४२ ॥ पृ. २०८ ॥ ५. वबयोरैक्यं बोध्यम् ॥ ६. ' -रम्' इति४ ॥ ७ ' शुरम्' इति ॥ ८. द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-२, काण्डः - ३, श्लो - ४५५, पृ. १९९ ॥ ९. 'पुंक्लीबलिङ्गम्' इति४ ॥ १०. मैत्रेयसम्मतोऽयं धातुपाठः, 'रुच दीप्तावभिप्रीतौ च' इति स्वामिसायणौ ॥ ११. क्षीरतरङ्गिण्यादौ कान्त्यर्थकरुचधातुर्न दृश्यते ॥ १२. 'शूलं' इति१ ॥ १३. 'पुंक्ली. ' इति१.२ ॥ १४. 'बहुलमन्यत्रापि ' ( उणा - १९५ ) इत्युणादिगणसूत्रम् ॥ १५. द्र. तत्र " पूर्वं तु मधु (र) लवणम् । अगन्धं कृष्णलवणं तिलकमित्येके" इति दृश्यते ॥ स्वोपज्ञटीका ४ ।९४३ ॥
अम. क्षीर. २ १९ १४३ ॥, पृ.२०९ ॥, पृ.२०९ ॥ १६. 'नः' इति५ ॥
For Private Personal Use Only
www.jainelibrary.org