________________
६२२-६२५ ]
बुक्का हृद हृदयं वृक्की सुरसं च तदग्रिमम् ॥६२३॥
पुनः ।
१ धातूनामनेकार्थत्वाद् बुक्यते स्वादुत्वेन मृग्यते बुक्का, नकारान्तः । 'बुक्क भाषणे (भषणे) ' (भ्वा.प.से., चु.उ.से.) 'कनिन् युवृषितक्षि- ' ( उणा - १५४) इति सूत्रे 'अन्येभ्योऽपि' इति वचनात् कर्नू । बुक्कानौ, बुक्कानः इत्यादि । मिश्रास्तु-बुक्यते(बुक्क्यते) मृग्यत इति बुक्का, घञन्तः । स्व पुंलिङ्गेऽयम्, मिश्रमते स्त्रीलिङ्गष्टाबन्तः । बुक्कः पुमानपि, " शोणितेषु स्त्रियां बुक्का बुक्कस्तु समयोर्द्वयोः "[ '] इति रभसात् । रुद्रकलिङ्गादिभि:- "बुक्क (बुक्का) नान्तम्, क्लीबमव्युत्पन्नम् " १० ['] इत्युक्तम् । " उरस्यपि च बुक्कायां हृदयं मानसेऽपि च "
१ पूयते दुर्गन्धीभवति पूयम्, पुंक्लीबलिङ्गः। 'पूयी विशरणे '(भ्वा.आ.से.), अच् । २ दूष्यते तद् दूष्यम् । 'दुष वैकृत्ये'(दि.प.अ.) 'ऋहलोर्ण्यत् '३ । १ । १२४ ॥ । द्वे 'परू' इति ख्यातस्य ॥
अथ तुर्यं धातुमाह
[त्रिकाण्डशेषः३।३।३२५॥]इति त्रिकाण्डशेषः । भागुरिस्तु- मेदोऽस्थिकृद् वपा मांसांत् तेजो - जें गौतमं वसा ४०
॥६२४ ॥
" अग्रमांसं भवेद् बुक्कम् [] इत्यदन्तं क्लीबे आह । " बुक्क - स्याग्रं सम्मुखीभूतं मांसं बुक्काग्रमांसमित्येकं नाम "[]इत्येके । २ ह्रियते हृद् । 'हृञो बहुलम् ' ( ) इति दुक् । ३ 'वृहो: षुक्दुकौ च ' ( उणा - ५४० ) इति यति दुकि च हृदयम् । ४ वृक्यते (वृज्यते) आदीयते वृक्का । 'निष्कतुर (रु) ष्क- ' (हैमोणा - २६ ) इति के निपात्यते । स्त्रीलिङ्गोऽयम्, टाबन्तः । यद्गौडः-‘“स्त्रियां वृक्का”[]इति । वैजयन्तीकारस्तु "वृक्कौ पार्श्वगतौ गुलौ (वृक्यौ पार्श्वगतौ गुडौ ) " [ वैजयन्तीकोषः २० ४|४|११२ ॥ ] इत्याह । ५ सुष्ठु रस्यते सुरसम् । 'रस आस्वादे' (चु.उ.से.), घञर्थे कः । तदिति मांसम्, अग्रिमं मुख्यम् । "बुक्का अग्रमांसम्, हृदयं च जीवाधारः पद्मम् [] इत्यमरः पृथक्पृथगाह । उक्तं च
"पद्मकोशप्रतीकाशं रुचिरं चाप्यधोमुखम् । हृदयं तद्विजानीयाद् विश्वस्यायतनं महत् ॥१॥" [']इति । पञ्च प्रधानमांसस्य ॥६२३॥
शुष्कं वल्लूरमुत्तप्तम्
१ शुष्कं मांसम्, वल्लते संवृतं भवति वल्लूरम्, त्रिलिङ्ग: । 'वल वल्ल संवरणे' (भ्वा.आ.से.), 'खर्जि३० पिञ्जादिभ्य ऊरोलचौ ' ( उणा - ५३० ) इत्यूरः । स्त्रियां वल्लूरा
व्युत्पत्तिरत्नाकरकलिता
Jain Education International
२७५
पि । २ उदत्यर्थं तप्तम् उत्तप्तम् । उत्तप्यते शोष्यत इति वा । “उत्तप्तं शुष्कमांसे तप्तेऽपि "[ ] इति श्रीधरः । द्वे शुष्कांसस्य ॥
१ मेद्यति स्निह्यति मेदः, क्लीबे । 'ञिमिदा स्नेहने'(दि.प.से.), ' - असुन्' (उणा - ६२८) । मेदसी, मेदांसि इत्यादि । " मेदो घञन्तः "[ ] इत्यन्ये । २ अस्थीनि करोति अस्थिकृत् । ३ उप्यते वपा । 'टुवप् बीजतन्तुसन्ताने' (भ्वा.उ.अ.), भिदादित्वादङ् । वपति शुक्रं तत्प्रभवत्वाद्वा वपा । अचि टाप् । ४-५ मांसशब्दात् तेजोजे योज्ये, तेन मांसतेजः, क्लीबे, सकारान्तः, मांसजम् । ६ गोतमस्येदं गौतमम् । ७ वस्ते आच्छादयति मांसम्, वसति प्राणिषु वा वसा । 'वस आच्छादाने ' (अ.आ.से.), 'वस निवासे' ५० (भ्वा.प.अ.) वा, भिदादित्वादङ् अच् वा । " शुद्धमांसस्य यः स्नेहः, सा वसा["]इति तु वैद्याः । सप्त मेदसः । 'मांस चीकट' इति भाषा ॥ ६२४॥
अथ तद्भेदानाह
मस्तर्कस्नेहो मस्तिष्को मस्तुलुङ्गकः ।
१ गुध्यते अन्तः शिरोवेष्टयति गोदम् । 'गुध परिवेष्टने'(दि.प.से.), अच्, पृषोदरादिः, पुंस्ययम् (क्लीबेऽयम्) । वाचस्पतिस्तु-‘‘गोदोऽस्त्री मस्तुलुङ्गकम्"["] इति पुंस्यप्याह ।
For Private
गोदं
१. ३प्रतौ नास्ति ॥ २. द्र. टीकासर्वस्वम्, भा-२, २१६ ॥ ६४ ॥, पृ. ३२३ ॥ तत्र " शोणितान्त्रे स्त्रियां वृक्का बृकं तु ( समर ? ) द्वयोः" इति दृश्यते, पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३२२, पृ.४०२ ॥ रामाश्रमी २।६ ॥ ६४ ॥ पृ. २८८ ॥ तयोः 'बुक्कस्तु समयोर्द्वयोः' इत्यस्य स्थाने 'बुक्कं सुरसमद्वयोः ' इति दृश्यते ॥ ३. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३२२, पृ.४०२ ॥ ४. द्र. स्वोपज्ञटीका ३।६२३ ॥, पृ.१४० ॥ ५. कोष्ठान्तर्गतपाठो मुद्रितवैजयन्तीकोषे दृश्यते, ४।४।११२ ॥ पृ. १३४ ॥ ६. श्रीधरकृतविश्वलोचनकोशे तु "उत्तप्तं शुष्के पिशिते संतप्ते च परिप्लुते "[ तान्तवर्गः, श्ले-९४, पृ. १३५]इति दृश्यते ॥ ७. 'पुंक्लीब' इत्येव३॥ ८. 'पूयी विशरणे दुर्गन्धे च' इति क्षीरतरङ्गिण्यादयः ॥ ९. इतोऽग्रे ४प्रतौ 'राध इति भाषा इति दृश्यते ॥ १०. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३२२, पृ. ४०२ ॥ ११. द्र. अम क्षीर. २ । ६ । ६४ ॥, पृ. १४८ ॥ स्वोपज्ञटीका ३ । ६२४ ॥, पृ.१४० ॥ १२. 'नो' इति३, 'नूं' इति४ ॥ १३. द्र. स्वोपज्ञटीका ३ ६२५ ॥ पृ.१४० ॥
तु
Personal Use Only
www.jainelibrary.org