________________
(रत्नाकरोऽनुपमो व्युत्पत्तिरत्नाकरः ।
क्व हेमप्रोक्तानि वचांसि तानि, क्व सार्थसूत्राणि नु पाणिनीनाम् ? । व्युपत्तिरेषाऽखिलशब्दसत्का, तथापि किञ्चिद् विलिखामि शक्त्या ॥१॥
अद्यैषा व्युत्पत्तिरत्नाकरवृत्तिसमलङ्कृता अभिधानचिन्तामणिनाममालारूपा पुष्पमाला विदुषां जिज्ञासूनामभ्यासुकानां च करकमलेष्वर्पतामस्माकमन्तरात्मन्यनुपमा आनन्दानुभूतिरनुभूयते । अस्या नाममालारूपपुष्पमालायाः कैश्चिदपि शब्दपुष्पैरवश्यं पाठकानां कार्याणि काव्यानि कृतयो वा सौरभायन्ते ॥
अपारो विस्तरो गिराम्
यदि पत्रायते व्योम, मेलानन्दायतेऽर्णवः । ब्रह्मायते लिपिकरस्तथाप्यन्तः कुतो गिराम् ? ॥१॥
(व्युत्पत्ति० पृ.२१३, पं.३५), [मेला मषी, तस्या नन्दा भाजनमिति व्याख्या ॥१॥], गगनं पत्रं स्याद्, समुद्रो मषीभाजनं स्यात् , चिरायुर्ब्रह्मा लेखक: स्यात्, तथापि गिरामन्तो न स्यात् । भगवान् पतञ्जलिरपि महाभाष्ये प्रथमे पस्पशाह्निके आह
"एवं हि श्रूयते- बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच, नान्तं जगाम, बृहस्पतिश्च प्रवक्ता इन्द्रश्चाध्येता, दिव्यं वर्षसहस्त्रमध्ययनकालः, न चान्तं जगाम, किं पुनरद्यत्वे ? यः सर्वथा चिरं जीवति वर्षशतं जीवति" इति ॥
एतदेवानुभूतिस्वरूपाचार्याः प्रोचुः"इन्द्रादयोऽपि यस्यान्तं, न ययुः शब्दवारिधेः । प्रक्रियान्तस्य कृत्स्नस्य, क्षमो वक्तुं नरः कथम् ? ॥१॥" इति ॥
क्षीणबलाः, क्षीणायुष्काः क्षीणप्रज्ञाः, क्षीणसत्त्वाः, वयं ज्ञानार्णवस्य बिन्दुमपि ज्ञातुं न शक्नुयामः। कानि कानि दर्शनानि, के के आगमाः, कति कति न्यायशास्त्राणि, विविधानि काव्यानि, अनेकानि व्याकरणानि, भूरि ज्योतिर्ग्रन्थाः, कीदृशं विज्ञानम्, अपारा: वैदिक-स्मृति-श्रुतिग्रन्थाः, आयुर्वेद-भूगोल-खगोलादिविषयकं साहित्यवैपुल्यं च कथमेतेषां सर्वेषां क्षितितले विद्यमानानां ग्रन्थानामवबोधः पारयितुं शक्यः ? ॥
ज्ञानार्णवे नौकायते कोषः
शब्दकोषबोधमन्तरेण शास्त्रावबोधोऽशक्यप्रायः, अत एव विभिन्नग्रन्थेष्वनेके प्राज्ञाः कोषमाहात्म्यं विशिष्टाभिरुपमाभिर्वर्णयन्ति ॥
तद्यथा"वक्तृत्वं च कवित्वं च, विद्वत्तायाः फलं विदुः । शब्दज्ञानादृते तन्न द्वयमप्युपपद्यते ॥१॥ कोशश्चैव महीपानां, कोशश्च विदुषामपि । उपयोगो महानेष, क्लेशस्तेन विना भवेत् ॥२॥ (अभि. स्वो. ११) व्याकरणरहितश्चान्धो, बधिरः कोशवर्जितः । काव्येन रहितः पङ्गद्कस्तर्कविवर्जितः ॥३॥ (काव्यदर्श दण्डी इदमन्धः तमः कृत्स्नं, जायेत भुवनत्रयम् । यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥४॥" इति ॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org